________________
१३६
प्रमाणपरिभाषा
अन्येन वाभिहन्यमाना दृष्टाः, एवं शब्दस्यापि तदभिघातश्चैत्रं प्रत्यागच्छतः प्रतिपवनेन प्रतिनिवर्तनात् पाश्वादिवददुर्बोधः । कथमन्यथा स एव शब्दः दिगन्तरावस्थितस्य श्रुतिवर्तनीमवतरेत् । . . ननु गन्धादयः कश्चित्पुमांसं प्रत्यायन्तोऽमुना निवर्त्यमाना दृश्यन्ते, नचामीषाममुना युक्तः संयोगः, गुणत्वात् ; एवं शब्देपि कुतः संयोगसिद्धिः इति चेत् । तद्वतो द्रव्यस्यैव तेन प्रतिनिवर्त्तनात् केवलानां त्वमीषां निष्क्रियत्वेनागमनानवर्त्तनासम्भवात् इति सिद्धं गुणवत्त्वाद् द्रव्यं शब्द इति ।। ... अपिच क्रियावत्त्वेन तत्र द्रव्यत्वसिद्धिः । न चाऽसिद्धं क्रियावत्वम् , आगतोऽयं शब्दः, इति प्रत्यक्षादेव तत्सिद्धेः । अक्रियत्वे च शब्दस्य श्रोत्रेण शब्दग्रहो न स्यात् , श्रोत्रं हि नार्हति शब्दप्रदेशे ब्रजितुम् ; अप्राप्यकारित्वस्वीकारे दीयताम् "प्राप्यकारि चक्षुर्बाह्येन्द्रियत्वात् त्वग्वत्" इत्यनुमाने कुठारः । यदि पुनः श्रोत्रेन्द्रियं बहिःप्रदेशे गच्छेत् तदाऽन्तरालवर्तिनामपि शब्दानां ग्रहणं प्रसज्येत । अनुवात प्रतिवात-तिर्यग्वातेषु प्रतिपत्त्यपतिपत्तीपत्प्रतिपत्तिभेदश्च नोपपद्येत, तस्य तत्कृतोपकाराधयोगात् । . अपिच श्रोत्रमपि नाकाशमर्हति भवितुं बाधिर्यायभावप्रसङ्गात् , किन्तु मूर्तमेवेति न तस्यासौ गुणः।। . किश्च शब्दस्याकाशगुणत्वस्वीकारे सर्वः सर्वशब्दान् प्रतीयात् , श्रोत्रसमवायाविशेषात् ।।
यत्तु शब्दस्य पौद्गलिकत्वनिषेधाय स्पर्शशून्याश्रयत्वम् , अतिनिबिडप्रदेशे प्रवेशनिर्गमयोरप्रतिघातः, पूर्व पश्चाच्चावयवानुपलम्भः, सूक्ष्ममूर्त्तद्रव्यान्तराप्रेरकत्वम् , गगनगुणत्वम् , इत्येवं पञ्च हेतूनभ्यधुः, तत्रादिमस्तावद् भाषावर्गणादेस्तदाश्रयस्य स्पर्शवद्भावेनासिद्ध एव । द्वितीयोऽपि भित्त्यादिकमुप