________________
न्यायालङ्कारालङ्कृता ।
१३५
शक्यते हि वक्तुं न वाताधभिसम्बन्धात्तदभिघातः अपित्वन्येन इत्यनवस्थानं हेतूनाम् । ___यदि च गुणत्वेनास्य निर्गुणत्वात् स्पर्शानुपपत्तेस्तदभि. घातहेतुत्वं न विचारसहमिति वक्षि ? तदा गृहाण शिरसि चक्रकम् , सति ह्यद्रव्यत्वे गुणत्वम् , सति चास्पर्शवत्वेऽद्रव्यत्वम् , सति पुनर्गुणत्वे निःस्पर्शत्वमिति । अपि च स्पर्शवता द्रव्येणाभिहन्यमानत्वमस्य स्पर्शवत्वसाधनप्रत्यलं प्रतीयत एव, को हि न प्रत्येति प्रतिपवनभित्त्यादिनाभिहन्यमानभावं शब्दस्य सकलजनसाक्षिकम् । न च सम्भवति मूर्त्तनामूर्तस्याविरोधभावात् प्रतिघातो गगनभित्त्यादिवत् तन्नास्यासिद्धः स्पर्शवद्भावः। ___.अल्पत्वमहत्त्वपरिमाणाश्रयत्वमप्यल्पमहत्त्वप्रत्ययस्य तत्र सर्वानुभवसिद्धत्वादशक्यमपह्नोतुम् ।
सङ्घयावत्त्वमपि तत्र एकः शब्दः द्वौ शब्दौ बहवः शब्दाः इति विज्ञानात् अशक्यापलापम् । ___अथोपचाराच्छब्दे सङ्ख्यावत्त्वानुभवः इति मनः, तदपि भ्रान्तम् , प्रष्टव्यो ह्यत्राभिदधीत धीमान् किं कारणगतां सङ्खयां शब्द उपचारयसि ? विषयगतां वा। आयेपि भणितव्यं किं समवायिकारणगतां कारणमात्रगतां वा । तत्र प्राचीनो युक्तितः पराचीन एव, “एकः शब्दः" इति सर्वदाव्यपदेशानुषङ्गात् , तस्य समवायिकारणस्य नभस एकत्वात् । अन्त्योऽपि तथैव, सवंदा बहवः शब्दाः इति व्यपदेशानुषक्तेः तस्य बहुत्वात् । विषयसङ्खयोपचारस्तु गगनाम्बराकाशामरपथादिशब्दानां बहुव्यपदेशभाक्त्वानुपपत्तेः; एको गोशब्द इत्यसिद्धेश्व न्यक्करणीय एव, एको हि गगनलक्षणो विषयः बहवः पुनः पश्वादिशब्दाः । संयोगवत्वं च तत्र वाय्यादिनाऽभिहन्यमानत्वात् पांश्वादिवदुपपादुकमेव, संयुक्ता एव हि पांवादयः पवनेन