________________
१३४
प्रमाणपरिभाषा
बाह्यन्द्रियप्रत्यक्षत्वात् , आत्मान्तरग्राह्यत्वात् अहङ्कारेण ग्रहणाभावाच । नापि मनोगुणः अस्मदाद्यध्यक्षत्वात् रूपादिवत् । नापि दिक्कालगुणः विशेषगुणत्वात् , इति सिद्धं पारिशेष्यात् शब्द आकाशगुण इति । सोऽयं शब्द आकाशलिङ्गीभवनाकाशं गमयति तच्च शब्दलिङ्गाविशेषाद् विशेषलिङ्गाभावाच्चैकम् । सर्वत्रोपलभ्यमानगुणत्वाच्च विभु । सामान्यविशेषवत्त्वे सति अनाश्रितत्वाच्च नित्यम् । गुणवद्भावविशिष्टास्पर्शवत्त्वाच्चानाश्रितम् । इत्येकनित्यविभुगगनगुणः शब्द इति ।
अत्र ब्रूमः
सामान्येनाश्रितत्वं शब्दानां त्वस्मदभिमतमेव, अङ्गीकुर्वते हि शब्दानां पुद्गलकार्यतया तदाश्रितत्वमर्हद्वाचमुपासीनाः ।
नित्यैकामूर्तविभुद्रव्याश्रितत्वं तु साध्यमानं सन्दिग्धविपक्षव्यावृत्तिकत्वेनानैकान्तिकात तोर्न सिध्यति, तथाभूतसाध्यान्वितत्वेनामुष्य हेतोः कापि दृष्टान्तेऽप्रसिद्धः।।
प्रतिषिध्यमानकर्मत्वे सत्यपि च प्रतिषिध्यमानद्रव्यभावत्वं शब्दे असिद्धिबन्धकीसम्बन्धधारकमेव, शब्दो हि द्रव्यम् , स्पर्शाल्पमहत्त्वपरिमाणसङ्ख्यासंयोगगुणाश्रयत्वात् । गुणाश्रयाः खलु द्रव्याणि भवन्त्येव । न चास्यासिद्धं तावत्स्पर्शाश्रयत्वम् , स्वाभिसंसृष्टार्थान्तराभिघातहेतुत्वाद् मुद्रादिवत् । सुप्रतीतो हि कंसपाच्यादिध्वानाभिसम्बन्धेन श्रोत्राद्यभिघातः तत्कार्यस्य बाधिर्यादेरुपलम्भात् । न चैषोऽस्य निःस्पर्शत्वे समर्हति, भवितुम् , न खल्वस्पर्शण कालादिनाभिसंसर्गेऽसावुपलब्धिपथमवतीर्णः । न च शब्दसाहचये भेजुषा नित्यगतिना तदभिघात इति रमणीयं वचः, शब्दाभिसम्बन्धान्वयव्यतिरेकानुविधायित्वात्तस्य । तथाभूतेपि तदभिघातेऽन्यस्यैव हेतुभावकल्पने तत्रापि का समाश्वासः १,