________________
१३३
न्यायालङ्कारालङ्कृता ।
अयं तावदिह परकीयोऽभिसन्धिः -
19
सर्वे खलूत्पत्तिविनाशादिधर्माध्यासिताः कचिदाश्रितत्वेनैव स्वस्था यथा घटादयः शब्दोपि तथैव सर्वविदुषां बालगोपालाङ्गनादीनां च प्रसिद्धः, अतस्तेनाप्यवश्यभवनीयं कचिदाश्रितत्वेन । अपिच गुणत्वात्तस्याधारः सिद्धिसौधमध्यारोहन शक्रेणापि शक्योऽधरीकर्त्तुम्, दृष्टा हि रूपादिगुणा घटादिद्रव्याधाराः, न च गुणत्वाधरीकारः क्षेमकारः, “शब्दो गुणः निविध्यमान द्रव्यकर्मत्वे सति सत्तासम्बन्धित्वाद् रूपवत्" इत्याद्यनुमानेन तद्गुणत्वस्य प्रमाणपथारोहात् प्रामाणिकस्याप्यकक्षीकारे जगच्छ्रन्यमापद्येत शून्यत्वस्यापि प्रमाणसाम्मुख्येप्यनङ्गीकारस्यैवौचित्या सर्वमसामञ्जस्यं दधाणं दुरुद्धरं किं न स्यात् ? । न च साधनमेव तदधरणीयम्, एकद्रव्यत्वेन शब्दस्य द्रव्यत्वप्रतिषेधात् " अद्रव्यमनेकद्रव्यं वा द्रव्यम् इति वचनाद् | अद्रव्यं हि गगनादि द्रव्यमेव । अनेकद्रव्यं व्यणुकादिकमपि द्रव्यमेव । एकद्रव्यं तु द्रव्यं भवत्येव न, एकद्रव्यश्व शब्द इति नासौ स्वीकरणीयद्रव्यभावः । न चासिद्धं तस्यैकद्रव्यत्वम् सामान्यविशेषवद्भावे सति बाौकेन्द्रियप्रत्यक्षत्वेन हेतुना तदुपपत्तेः । एवं कर्मत्वमपि नादसीयं विचारसहम्, संयोगविभागाकारणत्वेन शब्दस्य कर्मत्वायोगात्, इति सिद्धं द्रव्यकर्मत्वमत्याख्यानेन पारिशेष्यात् शब्दो गुण इति । सिद्धश्व तत एव तदीयः कश्चनाश्रयः, शेषवदनुमानेन चाकाशमेव तदाश्रयः सिध्यति, तथाहि — न तावदयं शब्दः स्पर्शवतां परमाणूनां विशेषगुणः अस्मदादिप्रत्यक्षत्वात् कार्यद्रव्यरूपादिवत् । नापि कार्यद्रव्याणां पृथिव्यादीनां विशेषगुणः कार्यद्रव्यान्तराप्रादुर्भावेप्युपजातेः, अकारणगुणपूर्वकत्वात्, अयावद्द्रव्यभावित्वात्, अस्मदादिपुरुषान्तरप्रत्यक्षत्वे सति पुरुषान्तराप्रत्यक्षत्वाच्च सुखेच्छादिवत् । नाप्यात्म विशेषगुणः
,