________________
१३२
प्रमाणपरिभाषाविशिष्टीभूय रक्तिमानमानयन्तम् ।। - यद्वा पूर्ववर्णविज्ञानाभावविशिष्टस्तज्ज्ञानजनितसंस्कारसव्यपेक्षो वान्त्यो वर्णोऽर्थप्रतीतिप्रभावकः पूर्ववर्णविज्ञानोद्भूतसंस्कारश्च प्रणालिकया चरमवर्णसाहायकं प्रामोति । तद्यथाप्रथमवर्णे तावद् विज्ञानम् , तेन च संस्कारोभूतिः, ततो द्वितीयवर्णविज्ञानम् । तेन च पूर्वज्ञानाऽऽहितसंस्कारसहितेन विशिष्टः संस्कारः प्रभाव्यते, एवं तृतीयादावप्यनुसन्धिः या. वदन्तिमः संस्कारोऽर्थप्रतिपत्तिजनकचरमवर्णसहायो भवति । ___अथवा शब्दार्थोपलम्भहेतुक्षयोपशमप्रतिनियमादविध्वस्ता एव पूर्ववर्णप्रतिपदस्तत्संस्काराश्च चरमवर्णसंस्कारमर्जयन्ति । तथाभूतवासनोद्भूतस्मरणसव्यपेक्षो वा चरमो वर्णः पदार्थावसायहेतुरित्याहुः । एतेनैव च न्यायेन वाक्यार्थप्रतिपक्तिरप्यवधानीया। - इत्थं च न किञ्चिद्विशेष पश्यामो यदर्थमावश्यकाभ्युपगमः स्फोटः स्यात् , इति स्फोटनीय एव स्फोटः, न पुनः स्फोटनीय इति ॥३॥
__ अथ शब्दस्य पुद्गलतः समुत्पादं वदमानो यौग-मीमांसकमतं तिरस्करोति
पुद्गलजः॥४॥ शब्दः पुद्गलजः पुद्गलैर्भाषावर्गणापरमाणुभिरारम्भणीय इत्यर्थः । अत्र "पुद्गलज" इत्यत्र जपदेन शब्दस्योत्पत्तिप्रकटनाद् नित्यत्वमभिमेनानो मीमांसकः पराकारि । पुद्गलपदेव पुनस्तस्य पौगलिकत्वभणनाद् गुणत्वमवगिरमाणो योगः पराभावि । तत्र शब्दस्य नित्यत्वं प्रागेवापास्थामहीति नेह विस्तरेण पुनस्तद्विवरणं ग्रन्थगौरवभयादुचितं जानीमः, इति शब्दस्य पौद्गलिकत्वमेव परिचिन्तयामः ।