________________
न्यायालङ्कारालङ्कृता। १३१ तीतेः । एतेन कृतसमया ध्वनयोऽर्थाभिधायिनो विपरीता वेत्याद्यचोद्यम् । कृतसमयानामेव ध्वनीनामाभिधायकत्वेनाभ्युपगमात् । समयः पुनः सामान्यविशेषात्मकेऽर्थेऽवसातव्यः न जात्यादिमात्रे । न चात्रानन्त्याद् व्यक्तीनामन्योन्याननुगमाच कुतः सम्भवी सङ्केत इत्यभिधातव्यम् ; समानपरिणामापेक्षया क्षयोपशमविशेषप्रादुर्भूततर्कप्रमाणेन प्रतिभासमानत्वेनामूषां स ङ्केतविषयतोपपत्तेः । इतरथाऽनुमानप्रवृत्तिरपि कुतः स्यात् ? इति चिन्त्यताम् , तत्राप्यानन्त्याननुगमतया साध्यसाधनव्यक्तीनां दुःसम्भव एव हि सम्बन्धग्रह इति कृतं बहुना । - यत्तु अर्थवाचकः स्फोट इति मतं शाब्दिकानाम् , तदप्यसमीक्षितसुन्दरम् । प्रमाणाभावाद्; दृष्टकारणकलापेनार्थावबोधसिद्धौ अदृष्टतथाविधकल्पनानौचित्याच्च । न च वर्णानां व्यस्तभावेन वाचकत्वाङ्गीकारे एकेनैव वर्णेन गवाद्यर्थप्रत्ययोदये तदुत्तरवर्णानामनुच्चारणप्रसङ्गः, वैयर्थ्यात् । सामस्त्यं तु तेपामसम्भवम् , क्रमोत्पन्नानाममीषामन्तरविलीनत्वेन समुदायासम्भवात् । युगपदुत्पादस्तु तेषामेकपुरुषापेक्षया नृविषाणायमाणः । ते हि प्रतिनियतस्थानकरणप्रयत्नप्रभवाः, इति चतुरा तच्चिन्ता । स्वाभिमतमतेऽप्येतदोषाविशेषात् । शक्यते हि वक्तुं न समस्ता वर्णा अभिव्यञ्जितुमर्हन्ति स्फोटम् , उक्तविधया तेषां सामस्त्यानुपपत्तेः । एवं वर्णान्तरोच्चारणानर्थक्यानुषङ्गात् प्रत्येकमपि नेति ।
वस्तुतस्तु सर्वप्रतीतिसिद्धपूर्ववर्णविनाशविशिष्टचरमवर्णादर्थप्रतीतेरभ्युपगमानोक्तदोषावतारः । वृन्तफलसंयोगाभावस्याप्रतिबद्धगुरुत्वफलप्रपातक्रियोत्पादे च कारणत्वदर्शनाद् नासिद्धमभावस्य सहकारिकारणत्वम् । कथमन्यथा प्राक्तनसंयोगाभावविशिष्टं कर्मोत्तरसंयोगं कुर्वीत ? । को वा न प्रत्येति परमाणौ परमाणुकशानुसंयोगं तत्रत्यपूर्वरूपध्वंस