________________
१२८
प्रमाणपरिभाषात्रार्थे सङ्केतिनस्तमसावीष्टेवदोधयितुम् । एवं च सहजसाममुसमयाभ्यामर्थबोधनिबन्धनं भाब्द इति नियूंढम् । __नन्वेषा सहजयोग्यता नित्या स्यात् अनित्या वा ? । न तावदनित्या, अनवस्थादौस्थ्यापातात् ; तथाहि प्रसिद्धसम्बन्धेनायमित्यादिना शब्देनाप्रसिद्धसम्बन्धस्य घटादेः शब्दस्य सम्बन्धः क्रियते, तस्याप्यन्येन प्रसिद्धसम्बन्धेन सम्बन्धः, तस्यापि चान्येनेति । नित्यत्वे पुनरस्याः सिद्धं नित्यसम्बन्धाच्छब्दानां वस्तुप्रतिपत्तिहेतुत्वमिति मीमांसकाः। ते लक्ष्मीनामार्थदरिद्रस्त्रीवदमीमांसकाः मीमांसकाः । हस्तादिसंज्ञासम्बन्धवच्छब्दाथसम्बन्धस्यानित्यत्वेपि पदार्थप्रतिपत्तिहेतुत्वाविरोधात् । नखलु हस्तसंज्ञादीनां स्वार्थेन सम्बन्धो नित्यस्तेषां नित्यत्वाभावे तदाश्रितसम्बन्धस्य नित्यत्वविरोधात् । न खलु भित्तिव्यपाये तदाश्रितं चित्रं न व्यपैतीत्याह कश्चन स्वस्थः पुमान् । न चानित्यत्वेऽप्यस्य नास्त्यर्थप्रतिपत्तिहेतुत्वम् । प्रत्यक्षविरोधात् । एवं शब्दार्थसम्बन्धेऽपि । स हि तावदाश्रितोऽनाश्रितो वार्थावगमप्रगुणः १ । न तावदनाश्रितः । नभोवदनाश्रितस्य सम्बन्धत्वायोगात् । आश्रितत्वे वक्तव्यं स्यात् तदाश्रयस्य नित्यत्वानित्यत्वान्यतरत् । नित्यत्वे वक्तव्यं पुनस्तथाभूता जातिय॑क्तिर्वा ? । न तावज्जातिः तस्याः शब्दार्थत्वे प्रवृत्तिनिवृत्त्यनुपपत्तेः । व्यक्तेस्तु तदाश्रयत्वे कथं नित्यत्वम् , अ. नभ्युपगमात् तथा प्रतीत्यभावाच्च । अनित्यत्वे च तदाश्रयस्य सिद्धं तद्व्यपगमे सम्बन्धस्यानित्यत्वम् , भित्तिव्यपगमे चित्रवदिति । एतेन
"नित्याः शब्दार्थसम्बन्धास्तत्रानाता महर्षिभिः । - सूत्राणां सानुतन्त्राणां भाष्याणां च प्रणेतृभिः" ॥१॥
इति प्रत्यक्षेपि तत्पलापः। सदृशपरिणामविशिष्टस्यार्थस्य शब्दस्य तदाश्रितसम्बन्धस्य चैकान्ततो नित्यत्वासम्भवात् । सर्वथा नित्य