________________
न्यायालङ्कारालङ्कृता।
१२९
वस्तुनः क्रमयोगपद्याभ्यामर्थक्रियानुपपादुकत्वस्य प्रागेव प्रदर्शितत्वात् , अर्थक्रियाशून्यस्य च तुरङ्गमोत्तमाङ्गसङ्गासङ्गिशृङ्गवदसत्वव्यवस्थानात् । यच्चानवस्थादूषणेनोपालेभानोऽभूः, तदप्यक्षेमङ्करम् , अयमित्यादेः शब्दस्यानादिपरम्परातोऽर्थमात्रे प्रसिद्धसम्बन्धत्वात् तेनावगतसम्बन्धस्य घटादिशब्दस्य सङ्केतविधानात् । अपिचैष दोषानलस्तव चरणे नास्ति ज्वलनः ? । तवापि हि विना अनभिव्यक्तसम्बन्धस्य शब्दस्याऽभिव्यक्तसम्बन्धेन शब्देन सम्बन्धाभिव्यक्तिं कुतः क्षणमपि सुखशायिका ?। एवं च तस्याप्यन्येनाभिव्यक्तसम्बन्धेनेति स्पष्टमेव प्रविष्टोऽनवस्थाव्याघ्रीमुखे त्वदभ्युपगमपादः । __यदि पुनः कस्यचित् स्वत एव सम्बन्धाभिव्यक्तिरित्यभिप्रैषि · तदा परस्यापि सा तथैवास्तीति देहि सङ्केतक्रियायै जलाञ्जलिम् , वैयर्थ्यात् । ____ शब्दविभागाभ्युपगमे चाऽलं सम्बन्धनित्यत्वपरिकल्पनेन, कल्पने चाऽगृहीतसङ्केतस्याप्यतोऽर्थप्रतिपत्तिोंदियादिति का प्रत्याशा ?। सङ्केतस्तस्य व्यञ्जक इत्यप्ययुक्तमभिधानम् , नित्यस्य व्यङ्ग्यत्वायोगात् नित्यं हि वस्तु यदि व्यक्तं व्यक्तमेव, अथाव्यक्तम् एवमप्यव्यक्तमेव, अभिन्नस्वभावत्वात्तस्येति नैकान्ततो नित्यत्वेनोपपादुकः कश्चिदर्थः, इति नासिद्धमुक्तयुक्त्या शब्दार्थसंबन्धस्यानित्यत्वमिति ।
अथ स्वबुद्धि बोधयन्ति बौद्धाः । __ननु नोपपद्यते शब्दानामर्थप्रतिपादकत्वम् , य एव हि शब्दाः सत्यर्थे दृष्टास्त एवातीतानागतकाले तदभावेऽपि दृश्यन्ते । यदभावे च यद् दृश्यते न तत्तत्प्रतिवद्धम् , यथा पटाभावेपि दृश्यमानो घटः, अर्थाभावेपि चोपलभ्यन्ते शब्दास्तन्नैतेऽर्थप्रतिपादकाः किन्त्वन्यापोहमात्राभिधायिन इति । तदेतदपरीक्षितमनोरमम् । अर्थवतः शब्दात्तद्रहितस्यास्यान्यभावात् । न चा