________________
न्यायालङ्कारालङ्कृता ।
१२७ रामः, प्रत्यक्षस्याप्येवमनुमानत्वानुषक्तेः तस्यापि स्वविषये सम्बद्धस्यैव सतस्तद्गमकत्वात् , इतरथा सर्वप्रमातॄणां सर्वार्थप्रत्यक्षत्वप्रसङ्गात् । विषयसम्बद्धत्वसामान्येऽपि प्रत्यक्षानुमानयोः सामग्रीभेदात् प्रमाणान्तरत्वस्वीकारे आगमस्यापि तथा भूतत्वेन प्रमाणान्तरत्वं कथं न स्यात् । अन्यथार्धजरतीयन्यायानुप्रवेशः । तदूचुः
"शब्दादुदेति यज्ज्ञानमप्रत्यक्षेऽपि वस्तुनि । शाब्दं तदिति मन्यन्ते प्रमाणान्तरवादिनः" ॥१॥ इति ।
कः पुनः नामस्ताऽनभ्यासावस्थायां शब्दस्यानुमानमानताम् , कस्यचित् प्रस्मृतसमयस्य समयान्तरे रसालशब्दाकर्णने यो रसालशब्दः स तथाभूतविटपिविशेषवाची यथा चेत्रोद्भावितः पुराणः तथा चायमपि मैत्रोत्थः, इत्येवं शब्दे व्याप्तिज्ञानबलेन तदर्थप्रत्ययोदयदर्शनात्, इति सिद्धमागमः पृथक् प्रमाणमिति । एतादृशप्रमाणीभूतशब्दं तदर्थज्ञानपूर्वकं प्रयोक्ता चाप्तो वेदितव्यः । स च द्वेधा प्रादर्शि, लौकिको लोकोत्तरश्च, तत्राद्यो जनकजनन्यादिः, अन्तिमस्तीर्थकरगण. धरादिरिति ॥ २॥
ननु "शाब्दयथार्थज्ञानसाधकः शब्द" इत्युक्तं तत्र सङ्केतमात्रेण शब्दस्तत्साधकः स्वाभाविकसामर्थ्यमपि धरमाणो वा ?; अत्राह-- अर्थप्रकाशने योग्यः सङ्केतापेक्षी ॥ ३ ॥
शब्द इति वर्त्तते, उत्तरत्र च । अर्थप्रकाशने अर्थावबोधाविर्भावे योग्यो योग्यतां बिभ्राणः शब्दः। योग्यता पुनः सहजसामर्थ्यम् । ननु यदि तादृशशक्तिविशेषं दधिवान् ध्वनिरर्थप्रकाशं प्रादुष्कुर्यात् , सर्वशब्दैः सर्वलोकः सर्वार्थान् प्रतीयात् इत्यत आह-" सङ्केतापेक्षी" इति; सङ्केतः समयः, यः शब्दो य