________________
१२६ . प्रमाणपरिभाषा--- महीतले समुन्मीलितविमलकमले पृथुपद्माकरजले स्नानलीलाविलासं परिकलयत् प्रकटं नटकुलम् , इत्यादि ।
उक्ताः प्रमाणसामान्यतद्विशेषाभासाः। इदानीं तद्विषयाभासः प्रकटनीयः, स तु "उत्पाद-व्यय-ध्रौव्ययुक्तं वस्तु प्रमाणस्य विषयः" इति सूत्रेणोत्पादादित्रयविशिष्टार्थस्य प्रमाणविषयत्वोपदर्शने नित्यमेव, अनित्यमेव, तवयं वाऽन्योन्यनिरपेक्षं वस्तु प्रमाणस्य विषय इत्येकान्तः प्रमाणस्य विषयाभासोऽतिरोहित एव । एतच्च तत्त्वं तत्रैव व्यविचाम । ___भिन्नमेव, अभिन्नमेव वा प्रमाणतः फलं फलाभासमपि प्रमाणस्य "तयोर्भेदाभेदः" इत्यत्र प्रोक्तप्रायमेवेति ॥ १ ॥
ननु यद्यर्थज्ञानमागमस्तर्हि कथमाप्तशब्दात्मकोऽसौ सिद्धान्तिनां प्रसिद्धः १, “आप्तोपदेशः शब्दः" इति चोदानाः कथमन्ये शोभेरन् ? । अत्राहउपचारात्तत्साधकः शब्दोऽपि ॥२॥
तस्य शाब्दयथार्थज्ञानस्य साधको निर्वर्तकः शब्दोऽपि, अपिशब्दः समुच्चयार्थः, प्रतिपाद्यज्ञानस्य हि तथाभूतः शब्दः कारणमिति कारणे कार्योपचारादसावागम इत्यपदिश्यते; यथा समस्त्यत्र प्रदेशे रत्ननिधानं सन्ति रत्नसानुप्रभृतय इति ।
न च व्याप्तिग्रहणबलेनार्थप्रतिपादकत्वाद् धृमवदस्यानुमानेऽन्तर्भावः, कूटाकूटकार्षापणनिरूपणप्रवणप्रत्यक्षवदभ्यासदशायां व्याप्तिग्रहनैरपेक्ष्येणैवास्याऽर्थबोधकत्वात, इत्यन्यत्र विस्तर। ____ यत्तु शब्दः परोक्षार्थ सम्बद्धं वा गमयेत् असम्बद्धं वा, तत्रोदीचीनस्तावदुपक्षिप्तः पक्षो न सूक्ष्मः, गवादिशब्दादश्वादिप्रत्ययोदयप्रसङ्गात् । पौरस्त्ये तु सम्बद्धशब्देन लिङ्गभूयमधिरोहताऽभ्युत्थास्नुप्रत्ययोऽनुमानमेवेत्यभिसन्धिः, नासावभि