________________
अहम् । अथ चतुर्थः परिच्छेदः।
उक्तमनुमानम् । साम्प्रतं परोक्षप्रमाणान्तिमभेदमागममुपदिशति
शाब्दज्ञानमागमः ॥१॥ शब्देन जनितं शाब्दं तथाभूतं ज्ञानं यथार्थज्ञानम् , आगम्यन्ते मर्यादया परिज्ञायन्तेऽर्था अनेनेत्यागमः ।
आगमस्वरूपविरहित आगमवदाभासमान आगमाभासः, अनासप्रणीतभणितिप्रभवत्वादयथार्थशाब्दज्ञानमागमाभासपदार्थ इत्यर्थः।
आप्तवचनस्य चोपचरितप्रामाण्यतया तदितरवचनस्याप्यर्थविसंवादित्वादागमाभासत्वमविरुद्धम् ।
उदाहरणं यथा"एकान्तानित्यं नित्यं वा वस्तु केवलिनः पुनः ।
भोक्तारः कवलान् न स्युन सिध्येयुश्च योषितः ॥१॥ नाऽर्चेन चालङ्करणादिनाऽलङ्कुर्वीत बिम्बं परमेशितुश्च ।
सुखादिकं स्याच शरीरधर्मः सर्व पुनः स्यात् क्षणभङ्गसङ्गि ॥२॥ जगन्मिथ्या ब्रह्माऽवितथमिति सर्व प्रकृतितः परीणामो विश्वं भवति पुनरेतद् भगवतः । जगच्चिन्मात्रात्मं स्फुरति खलु शून्यं पुनरिदं भ्रमात्कुम्भस्तम्भाम्भइभकरभाम्भोनिधिधियाम् ॥३॥ इत्यादि ।
अपिच पश्यत पश्यत शिशवः ! एष पुरश्चण्डेतररुचिरुचि रुचिरो रजतराशिः। . गच्छत गच्छत बहिामं बटवः ! कर्षणकृषिवलक्षेत्र