________________
१२४
प्रमाणपरिभाषा
म्यतापि क्षायोपशमिकज्ञानशालिना प्रतिवादिना न कथञ्चित् तत्वनिर्णयः परत्र पार्यते कत्तुं तदा तन्निर्णयार्थमुभाभ्यामपि सभ्यानामपेक्षा क्रियत एव । सभापतेस्तूक्तदिशा नास्त्यपेक्षेति । ननु केवलिनि भगवत्यपि तत्त्वनिर्णयमुत्पादयितुं प्रवर्त्तते वादिब्रुव इति महत्कुतूहलम् । ननु किमत्र कुतूहलम् । निःसीमा हि मोहहतकस्य महिमा, इति कश्चिदात्मानं निर्णीततत्त्वमिवाभिमन्वानः समग्रपदार्थपरमार्थदर्शिनि केवलिन्यपि तन्निर्णयोपजननार्थ प्रवर्तते इति न कदाचिदसम्भावना। भगवांस्तु के. वली परमकृपापीयूषपूरपूरितान्तःकरणतया तमप्यवबोधयतीति किन्नामात्रदुर्घटम् । एवं विजिगीषयापि केवलिना सह वदितुमारम्भो नासम्भवो वेदितव्यः श्रुतं च स्यात् , अपापानाम्न्यां पुरि समरसते परमात्मनि श्रीमहावीरदेवे तं विवन्दिषून समाप. ततोऽहमहमिकया दिविषदः समवलोक्य तत्रैव यज्ञकर्मणि प्रवृत्तः समधीतसकलवेदतदङ्गादिशास्त्रस्तोम आत्मानं सर्वज्ञरूपेण प्रख्याति निन्यानो द्विजवरो गौतमाऽपरनामेन्द्रभूतिः समुद्घोषयन् क्रतुप्रभावं चाण्डालवेश्मेवामुं यज्ञवाटमपहायसमवसरणभुवमुपगच्छत्सु त्वमीषु जनमुखाच्च निशम्य सर्वज्ञागमनं प्रकुपितः "सारङ्ग-मातङ्ग-तुरङ्गपूमाः ! पलाय्यतामाशु वनादमुष्मात् । साटोपकोपस्फुटकेशरश्रीमंगाधिराजोऽयमुपेयिवान् यत्" ॥१॥
इत्येवं सावष्टम्भमुच्चैल्पयन् “सर्वज्ञ" इत्यक्षरसन्निपाताऽऽपतितप्रकृतिवैषम्यः शिष्यपञ्चशतीतो वादिब्रुवो विजिगीषया भगवन्तमुपागतो भागवतेन सुधामधुरालापेन सद्यः शमपदवी. विशदीवभूवेति ॥ ५२ ॥ इत्याचार्यश्रीविजयधर्मसूरीश्वरविहितायाः प्रमाणपरिभाषाया वृत्तिभूते मुनिश्रीन्यायविजयप्रणीते न्यायालङ्कारे स्मरणप्रत्यभिज्ञानतर्काऽनुमानतत्प्रयोगभूमिभूतवादोपवर्णनाभिरामस्तृतीयः
परिच्छेदः ।। ३॥