________________
न्यायालङ्कारालकृता। १२१ चतुरङ्ग एवेत्यर्थः; वादि-प्रतिवादि-सभ्य-सभापतयश्चत्वार्यङ्गानि। तत्र मल्ल-प्रतिमल्लन्यायेन प्रारम्भक-प्रत्यारम्भको वादिप्रतिवादिनौ । सभायां पर्षदि साधवः सभ्याः प्राश्निकाः।
यदुक्तम्खसमयपरसमयज्ञाः कुलजाः पक्षद्वयेप्सिताः क्षमिणः । वादपथेष्वभियुक्तास्तुलासमाः प्राश्निकाः प्रोक्ताः ॥१॥ __ आहुश्च श्रीवादिदेवमरिचरणाः “वादिप्रतिवादिसिद्धान्ततत्वनदीष्णत्व-धारणा-बाहुश्रुत्य-प्रतिभा-क्षान्ति-माध्यस्थ्यैरुभयाभिमताः सभ्याः" इति “वादिप्रतिवादिनोयथायोगं वादस्थानककथाविशेषाङ्गीकारणाऽग्रवादोत्तरवादनिर्देशः, साधकबाधकोक्तिगुणदोषावधारणम् , यथावसरं तत्त्वप्रकाशनेन कथाविरमणम्', यथासम्भवं सभायां कथाफलकथनं चैषां कर्माणि" इति "प्रज्ञाऽऽज्ञैश्वर्यक्षमामाध्यस्थ्यसम्पन्नः सभापतिः" इति । ___तथाविध एव हि सभापतिः वादिप्रतिवादिसभ्योक्तार्थावधारणायां क्षमते, व्यपोहति च वादिकलहम् , कारयति च 'यो येन जीयते स तस्य शिष्यः, इत्यादि वादिप्रतिज्ञातार्थम् , करोति च पारितोषिकवितरणादि । तदुक्तम्"विवेकवाचस्पतिरुच्छ्रिताज्ञः क्षमान्वितः संहृतपक्षपातः । सभापतिः प्रस्तुतवादिसभ्यैरभ्यर्थ्यते वादसमर्थनार्थम्" ॥१॥ इति
एतदपराङ्गयुगलं विजिगीषुवादिप्रतिवादिवादे ताभ्यां परस्परस्य जयपराजयव्यवस्थाविलोपिनः शाठ्यकलहादेनिवारणार्थ लाभपूजाख्यात्यादिहेतवे वा, विजिगीषोः परत्र तत्वनिर्णिनीषोश्च वादे विजिगीषुणा लाभादिहेतवे, परत्र तत्त्वनिर्णिनीषुणा च शाठ्यकलहाद्यपोहायापेक्ष्यते एवेति सिद्धं यत्रैको विजिगीषुद्वौं वा, तत्र वादे सभ्यसभापत्योरवश्यम्भावः, न ए