________________
प्रमाणपरिभाषा -
१२०
भवत्येष वादजल्पयोर्विशेषः यदूचुः -
"दुः शिक्षित कुतर्कांश - लेशवाचालिताननाः । शक्याः किमन्यथा जेतुं वितण्डाटोपमण्डिताः १ ॥ १ ॥ गतानुगतिको लोकः कुमार्ग तत्मतारितः । मा गादिति च्छलादीनि प्राह कारुणिको मुनिः ॥ २ ॥ इति । नैतत् । असदुत्तरैः परप्रतिक्षेपस्य कर्त्तुमयुक्तत्वात् न ह्यन्यायेन जयं यशो वा समीहन्ते महात्मानः । अथ स्यात् प्रतिवादी बलवान्, सम्भाव्यते च तज्जये धर्मध्वंसः, न प्रतिभासेत च' तदानीं प्रतिभापटिमविगमेन सम्यगुत्तरम्, तर्हि असदुत्तरैरपि पांशुभिरिवाव किरनेकान्तपराजयाद्वरं तत्र सन्देह इति धिया न दोषमावक्ष्यतीति चेत्; तत्राप्यापवादिकजात्युत्तरप्रयोग सद्भावेऽपि कथान्तरभावः कथं स्यात् । न हि वाद एव द्रव्यक्षेत्रकाल - भावानुसारेणासदुत्तरप्रयोगेऽपि कचित् प्रसज्येत कथान्तरत्वमिति जल्पवितण्डाप्रत्याख्यानेन वाद एवैकः कथापदवी सुभग इति ।। ५० ।।
ननु वादे यदि वादिप्रतिवादिनौ द्वावपि जिगीषू, एको वा जिगीषुः अन्यः परात्मनि तत्त्वनिर्णिनीषुच, तत्र शाठ्यकलहादिसम्भवे जयपराजयव्यवस्था कुतः स्यात् १; तथाविधशासनपतिप्राश्निकाभावादित्यत्राह
सविजिगीषुको वादि-प्रतिवादि-सभ्यसभापतिभिश्चतुरङ्गः ॥ ५१ ॥
वाद इत्यनुवर्त्तते, उत्तरत्र च सह विजिगीषुणा वादिना प्रतिवादिना वा उभाभ्यां ताभ्यां विजिगीषुभ्यां वेति सविजिगीषुको वादश्चतुरङ्गः, वाक्यस्यासति बाधके सावधारणत्वात्