________________
न्यायालङ्कारालङ्कृता ।
११९
“तत्त्वाध्यवसाय संरक्षणार्थं जल्पवितण्डे बीजप्ररोह संरक्षणार्थ कण्टकशाखावरणवत्" इति तन्मन्दम् । वादस्यापि निग्रह - स्थानवस्वेन तस्वसंरक्षणार्थत्वात् तदर्थेन प्रवृत्ताया अपि कथाया वादत्वाऽपरिहाणात् ; न चास्यासिद्धं निग्रहस्थानवत्त्वम् " प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहो वादः" इति गौतमीयवादलक्षणसूत्रे " सिद्धन्ताविरुद्ध" इत्यंशेनापसिद्धान्तस्य " पञ्चावयवोपपन्न" इत्यंशेन च न्यूनाधिकयोर्हेत्वाभासपञ्चकस्य चाभ्यनुज्ञानात् तेषां च निग्रहस्थानान्तरोपलक्षणत्वाद् नातो जल्पवितण्डे कथे, वादेनैव चारितार्थ्यात् । ननु “यथोक्तोपपन्नश्छलजातिनिग्रहस्थानसाधनोपालम्भो जल्पः " | " स प्रतिपक्षस्थापनाहीना वितण्डा" इत्येतद् द्विसूत्री सिद्धे जल्पवितण्डे अपि कथे गौतमर्षिरददर्शदिति कथम् ? । अस्तु यथा तथा, युक्तिभगवतीप्रसादलब्धात्मार्थाभ्युपगमव्यसनिन एव तु महात्मानः, न हि भवितुमर्हति वितण्डायाः कथास्वम्, वैतण्डिको हि स्वपक्षमभ्युपगम्यास्थापयन् यत्किञ्चिद् वादेन परपक्षमेव प्रत्याचक्षाणः कथमवधेयवचनः । जल्पस्तु यद्यपि द्वयोरपि वादिप्रतिवादिनोः साधनोपालम्भसम्भावनया कथापदवीं समायाति, तथापि वादान्नार्थान्तरम्, तदर्थस्य तेनैव सिद्धेः, छलजातिनिग्रहस्थान भूयस्त्व योगादचारितार्थ्यमिति चेत् । न, छलजातिप्रयोगस्य दूषणाभासत्वेनाप्रयोज्यत्वाद् निग्रहस्थानानां च वादेऽप्यवकाशाद्, न खलु खटचपेटामुखबन्धादयोऽनुचिता निग्रहाः जल्पेऽप्युपयुज्यन्ते, उचितानां च निग्रहस्थानानां वादेप्यविरोधः; नातः कश्चिद्वादाज्जल्पविशेषः, लाभपूजाख्यातिकामितादिकानि तु विजिगीषुवादिनः प्रयोजनानि तत्त्वाध्यवसायसंरक्षणलक्षणतत्प्रधानफलानुबन्धीनि पुरुषधर्मत्वाद् वादेऽप्यशक्यपरिहाराणि । ननु छलजातिप्रयोगोऽसदुत्तरत्वात् वादेनोपयुज्यते, जल्पे तु तस्य भवत्यनुज्ञेति