________________
११८
प्रमाणपरिभाषा
जिगीषुणा सह परत्र तत्त्वनिर्णिनीपोर्वादे उभयसाहित्य मस्ति, एको हि तत्रान्यं विजिगीषते अन्यथा तवं निर्णीतदन्तं चिकीर्षति, यत्र च द्वावपि विजिगीषू वादिप्रतिवादिनौ, तत्र विजिगीषामात्रम्, यत्र पुनः परत्र तस्वनिर्णिनीषू अपि द्वौ, एकः स्वात्मनि परच परत्र तत्त्वनिर्णिनीषुर्वा तत्र तत्रनिर्णि नीषामात्रम्, एतेन विजयस्तत्त्वनिर्णयो वा वादस्य प्रयोजनमतिरोहितं भवति । अथ वादस्वरूपमाह - " साधनदूषणव-: दनम्, इति, स्वपक्षविषयं साधनं परपक्षविषयं दूषणम्, स्वपक्षसिद्धये वादिनः साधनं तत्प्रतिषेधाय प्रतिवादिनो दूषणम्, प्रतिवादिनोऽपि स्वपक्षसिद्धये साधनं तत्प्रतिषेधाय वादिनो दूषणमित्येवं वादिनः साधनदूषणे प्रतिवादिनः साधनदूषणेच, तयोर्वादिप्रतिवादिभ्यां वदनं वचनं वादः । साधनदूषणवचने च प्रमाणरूपे एव भवतः तदितरयोस्तयोस्तदाभासत्वात् ; न हि ताभ्यां वस्तु साधयितुं दूषयितुं वा भवति शकनीयम् ।
ननु यत्रैव धर्मिणि एकतरधर्मव्यासेधेन तदन्यतरधर्मव्यवस्थापनार्थ वादिनः साधनवचनं तत्रैव पुनः प्रतिवादिनंस्तद्विपरीतं दूषणवचनं कथं सङ्गतिं गाते इति चेत् १ । न, स्वाभि प्रायानुसारेण हि वादिप्रतिवादिभ्यां तथा साधन- दूषणवचने को विरोध: ? । पूर्व हि वादी साधनमाख्याति स्वाभिप्रायेण, पश्चात्प्रतिवादी स्वाभिसन्धिना दूषणमाविष्करोति, न खल्वत्र साधनं दूषणं चैकत्रैव धर्मिणि तान्त्रिकमस्तीति विवक्षा किन्तु वस्त्राशयेन वादिप्रतिवादिनोस्तथा प्रयोगः ॥
ननु विजिगीषया साधन- दूषणवदनं वाद इति दुर्मर्षणं विजिगीषुर्हि स्वाभिमततत्व संरक्षणमेव प्रयोजनमुद्दिश्य वादे प्रवर्त्तते न च तत्प्रयोजनं वादनिष्पाद्यम्, तस्य निग्रहस्थानशून्यस्यात्, तस्माद् विजिगीषयां प्रवर्त्तमाना कथा वादातिरिक्तव जल्पलक्षणा वितण्डालक्षणा चाऽभ्युपेया, यदाह मुनिरक्षपाद: