________________
न्यायालङ्कारालङ्कृता। ११७ अत्र यदनित्यं न भवति तन्न कृतकम् , इत्येवं विद्यमानोऽपि व्यतिरेको नोपादर्शि । - अष्टमो यथा- शब्दोऽनित्यः कृतकत्वाद् यदकृतकं तन्नित्यं यथा गगनम् , अत्र यदनित्यं न भवति नेदं कृतकं भवतीति युक्तं वक्तुमिति । ... उक्तो दृष्टान्ताभासः । अथोपनयनिगमनाभासावसरः, तत्रोपनयलक्षणातिक्रान्तं वचनमुपनयाभासः। यथा- परिणामी शब्दः कृतकत्वाद् यः कृतकः स परिणामी यथा कुम्भ इत्यत्र परिणामी च शब्दः इति कृतकश्च कुम्भ इति चेति, इह हि साध्यधर्म साध्यधर्मिणि साधनं दृष्टान्तधर्मिणि वोपसंहरत उपनयाभास इति ।
एवं निगमनलक्षणमतिलवितवद्वचनं निगमनाभासः । यथोक्त एव प्रयोगे तस्मात् कृतकः शब्द इति तस्मात् परिणामी कुम्भ इति चेतिः अत्रापि साधनधर्म साध्यधर्मिणि साध्यधर्म वृष्टान्तधर्मिणि वोपसंहरतो निगमनाभासः।
एवं पक्षशुद्ध्यायवयवपश्चकस्य भ्रमतो वैपरीत्यप्रयोगे तदाभासपञ्चकमपि तर्कणीयमिति ॥४९॥
उक्तमनुमानम् । इदानीं तत्पयोगभूमिभूतं वस्तुनिर्णयाभिप्रायोपक्रम वादं वदतिविजिगीषया तत्त्वनिर्णिनीषया वा साधन
दूषणवदनं वादः॥ ५० ॥ . परं विजेतुमिच्छा विजिगीषा, तत्त्वं निर्णेतुं 'सर्वोऽपि धात्वर्थः कृधात्वर्थेन व्यासः' इति निर्णयं कर्तुमिच्छा तत्त्वनिर्णिनीषा, सा च द्विधा, स्वात्मनि परात्मनि च । वाशब्द उभाभ्यां सहिताभ्यां वादः प्रवर्त्तते, अन्यतरयापीत्याह, तथाहि वि