________________
१०८
प्रमाणपरिभाषाशाधिकरणमयूरसिद्धिर्भवतु, नैवम् , केकायितमात्रं हि मयूरमाश्रेणैवाविनाभूतं निश्चितमिति तदेव गमयति, देशविशेषविशिष्टमयूरसिद्धौ तु देशविशेषविशिष्टस्यैव केकायितस्याविनाभावनिर्णयोऽपेक्ष्यते इति केकायितमात्रस्य तद्व्यभिचारसम्भवादेव गमकत्वाभावः।
एवमेवाश्रयैकदेशसन्दिग्धवृत्तिरप्यसिद्धो न भवति । व्यर्थविशेष्यविशेषणासिद्धावपि नासिद्धविधी, वक्तुरकौशलमात्रत्वाद् वचनवैयर्थ्यदोषस्य । एवं व्यर्थैकदेशासिद्धादयोऽपि विज्ञेयाः । ततः स्थितमेतत् , एतेष्वसिद्धभेदेषु सम्भवन्त उभयान्यतरासिद्धयोरन्तभूष्णव इति । '.. नन्वन्यतरासिद्धो हेत्वाभास एव नास्ति तथाहि- परेणासिद्ध इत्युद्भाविते वादी यदि न तत्साधकं प्रमाणमभिदधीत तदा प्रमाणाभावादुभयोरप्यसिद्धः । अथाभिदधीत, तदाऽपक्षपातित्वात्पमाणस्योभयोरपि सिद्ध एव । अथ यावन्न परं प्रति प्रसाध्यते प्रमाणतः, तावत्तं प्रत्यसिद्ध इति चेत्, तर्हि गौणमसिद्धत्वम् , न हि रत्नादिपदार्थस्तत्त्वतोऽप्रतीयमानस्तावन्तमंपि कालं मुख्यतस्तदाभासः । किश्च । अन्यतरासिद्धो यदा हेत्वाभासस्तदा वादी निगृहीतो भवेत् , न च निगृहीतस्य पश्चादनिग्रह इति युक्तम् , नापि हेतुसमर्थनं पश्चादुचितम् , निग्रहान्तत्वाद्वादस्येति । अत्रोच्यते, यदा वादी सम्यग् हेतुत्वं प्रतिपद्यमानोऽपि तत्समर्थनन्यायविस्मरणादिनिमित्तेन प्रतिवादिनं पाश्निकान् वा प्रतिबोधयितुं नाधीष्टे, असिद्धतामपि नानुमनुते तदान्यतरासिद्धत्वेनैव निगृहीतो भवति । तथा स्वयमनभ्युप. नग्मानोऽपि परस्य सिद्ध इत्येतावतैवोपन्यस्तो हेतुरन्यतरासिद्धो निग्रहाधिकरणम् , यथा साङ्खयस्य जैन प्रत्यचेतनाः सुखादय उत्पत्तिमत्वाद् घटवत् । इति सिद्धमुभयान्यतरासिद्धाभ्यां द्वेधाऽसिद्धो हेत्वाभासः, सर्वे च सम्भवन्तोऽसिद्धविधयस्तत्रान्तर्भवि