________________
न्यायालङ्कारालकृता।
१०७
णिके वस्तुनि मूकवावदूकयोः कतरः श्रेयानिति स्वयमेव प्रशिलैर्विवेच्यतामिति चेत् । ननु भवान् स्वोक्तस्यैव तावद्विवेचनेऽवदधीत, मूकतैव श्रेयसीति च पूत्करोति निष्प्रमाणके वस्तुनीति विकल्पसिद्धधर्मिणं विधाय मूकताधर्म च विदधातीत्यात्मानं मा स्म विस्मरः, तस्मात्मामाणिकेनाप्युररीकरणीयैव कचिद् विकल्पसिद्धिः। ___ न चासावेव भवतु सर्वत्र कृतं प्रमाणेनेति वाच्यम् । तदन्तरेण नियतव्यवस्थानुपपत्तेः। एको विकल्पयति “अस्ति सर्वज्ञः" इति, अन्यः पुनः "नास्ति" इति किमत्र प्रतिपत्तव्यम् ? प्रमाणमुद्राव्यवस्थापिते त्वेकतरस्मिन्धर्मे दुर्धरोऽपि कः किं कुर्यात् । प्रमाणसिद्ध्यनर्हे तु धर्मिणि सर्ववेदिगगनकुसुमादौ विकल्पसिद्धिरपि साधीयसी तर्कव्यवसनिनामपि तथाव्यवहारदर्शनात् । एवं च नाश्रयासिद्धो हेत्वाभास इति स्थितम् ।
न चैवं विश्वस्य परिणामिकारणत्वादित्यादेरपि गमकत्वमापद्यतेति युक्तम् , अस्य स्वरूपासिद्धेः, प्रधानस्यासिद्धत्वेन विश्वस्य तत्परिणामित्वासिद्धेः । आश्रयैकदेशासिद्धोऽपि हेत्वाभास एवमेव प्रत्यवाचि; प्रधानात्मानौ नित्यौ अकृतकत्वादित्यत्र तु आद्यन्तविरहमात्रस्य नित्यत्वपदार्थतया तस्य प्रधानेऽत्यन्ताभावरूपे तदभाववादिभिरङ्गीकाराद् न क्षतिः। ___ एवं सन्दिग्धाश्रयासिद्धोऽपि न हेत्वाभासः, हेतोः साध्येनाविनाभाविभावात् , धर्मासिद्धिस्तु पक्षदोषः, साध्यधर्मविशिटतया प्रसिद्धो हि धर्मी पक्षः प्रोच्यते । न च सन्देहास्पदीभूतस्यास्य समस्ति प्रसिद्धिः, नातः पक्षदोषेणैव गतत्वाद् हेतुदोषो युज्यते वदितुम् । एवं पुनः सन्दिग्धाश्रयैकदेशासिद्धोऽपि तथैव वेदितव्यः । आश्रयसन्दिग्धवृत्त्यसिद्धोऽपि न शोभनः, यदि हि पक्षधर्मत्वं गमकत्वाङ्गत्वेनाऽऽतस्थानं स्यात् स्यादेष तदानीं दोषः, न चैवम् , तत्किमाश्रयवृत्यनिर्णयेऽपि केकायितात् प्रतिनियतदे