________________
• प्रमाणपरिभाषा- . तदा व्यक्तममूल्यक्रयी कथं नोपहासाय जायसे १; तथातायामाश्रयासिद्ध्युद्भावनायोगात् । ननु यदि विकल्पसिद्धेऽपि धर्मिणि गवेषणीयं प्रमाणं तदा प्रमाणप्रसिद्धेऽपि प्रमाणमन्वेषताम् , इतरथा विकल्पसिद्धेऽपि धर्मिणि पर्याप्तं प्रमाणान्वेषणेन, अहमहमिकया प्रमाणलक्षणपरीक्षणं परीक्षकाणामकक्षीकरणीयं च भवेत् , तावन्मात्रेण सर्वस्यापि सिद्धेरिति चेत् । तुच्छमेतत् , चिकल्पाद्धि सत्वासत्त्वसाधारणं धर्मिमात्रं प्रतीयते, न त्वस्ति तावन्मात्रेण तदस्तित्वस्यापि प्रतीतिः, यतोऽनुमानमपार्थकं स्यात्, अन्यथा सानुमत्साक्षात्कारे कृशानुमत्वसाधनमनर्थकं स्यात् । तस्याग्निमतो वाऽनग्निमतो वा प्रत्यक्षेणैव प्रेक्षणात् । अग्निमत्त्वाऽनग्निमत्वविशेषशून्यस्य क्षोणीधरमात्रस्य प्रत्यक्षेण परिच्छित्तेः कुतोऽनुमानापार्थक्यमिति चेत् । तर्हि अस्तित्वनास्तित्वविशेषशून्यस्य सर्वज्ञमात्रस्य विकल्पेनाऽऽकलनात् कथमत्रापि वैयर्थ्यमनुमानस्य स्यात् । अस्तित्वनास्तित्वव्यतिरेकेण कीदृशी सर्वज्ञमात्रसिद्धिरिति चेत् । अग्निमत्त्वानग्निमत्त्वव्यतिरेकेण कीदृशी धराधरमात्रसिद्धिः ?; इत्याचक्षीत । "पृथ्वीधरोऽयम्" इत्येतावन्मात्रज्ञप्तिरेवेति चेद्, अन्यत्रापि सर्वज्ञः, इत्येतावन्मा. त्रज्ञप्तिरेवास्तु । इयांस्तु विशेषः, एका किल प्रमाणोपपन्नत्वात् प्रामाणिकी, इतरा पुनर्विपर्ययाद्वैकल्पिकीति ।
ननु किमनेन दुर्भगाभरणभारायमाणेन विकल्पेन प्रामाणिकः कुर्यादिति चेत् । तदसत् , प्रामाणिकोऽपि हि षतर्कीपरितर्ककर्कशशेमुषीविशेषसङ्ख्यावद्विराजिराजसभायां "खरविषाणमस्ति नास्ति वा" १, इति साक्षेपं केनापि प्रसर्पदपोटुरकन्धरेण प्रत्याहतोऽवश्यं पुरुषाभिमानी किश्चिदालपेत् , न पुनस्तुष्णीमेव तदानीं पुष्णीयात् । अप्रकृतं च किमपि प्रलपन् सनिकारं निःसारितः स्यात् । प्रकृतभाषणे तु विहाय विकल्पसिद्धं धर्मिणं काऽन्या गतिरास्ते ?; इति चिन्तनीयम् । अप्रामा