________________
न्यायालङ्कारालङ्कृता ।
१०५
नेत्यस्ति प्रतिबन्धः, अतोऽसौ व्यभिचारादेवागमकः, एवं प्रासाद एष धवलः काकीयायाः श्यामिकाया इत्याद्यपि द्रष्टव्यम् । कथं वा जलचन्द्रो नभश्चन्द्रस्य, कृत्तिकोदयो वा शकटोदयस्यानुमापकः स्यात् ? । अत्रत्यं तत्त्वं प्रागुक्तमेवेत्यन्यथानुपपत्त्यभाव एव हेत्वाभासत्वयोनिः भवतु न वा पक्षधर्मत्वादि, न हि व्यभिचारित्वात्तद्गमकत्वाङ्गम् ।
एवमाश्रयासिद्धोऽपि न हेत्वाभासः कथमन्यथा “ समस्ति समस्त वस्तुवेदी चन्द्रोपरागादिज्ञानान्यथानुपपत्तेः" इत्यादेर्गमकत्वमुपपादुकं स्यात् ? । न चास्य हेतोरसिद्ध आश्रयः, विकल्पात्तत्सिद्धेः । न च तत्सिद्धौ तत्सत्वस्यापि प्रतिपन्नत्वाद् वैयर्थ्यमनुमानस्य, वैयात्यादप्रतिपद्यमानं प्रति तस्यार्थवत्त्वात् । न च - विकल्पादेव खरविषाणादेरपि सद्भावसम्भावनातोऽतिप्र सङ्गः; बाधकप्रत्ययविप्लावितसत्ताकवस्तुविषयत्वेन तस्य विभ्र मत्वात्, कथं तर्हि षष्ठभूतादेर्धर्मित्वमिति चेत् ?; धर्मिप्रयोगकाले बाधकप्रत्ययानुदयात् सत्त्वसम्भावनोपपत्तेः । अवश्यं चैतदभ्युपगमनीयम्, अन्यथा सर्वज्ञधर्मिणोऽसिद्धिरपि कथमिति प्रानिकप्रश्नप्रत्याहतः किमुत्तरमन्वेषेत १ । ननु प्रमाणागोचरत्वादित्येव ब्रूमः नन्वेवं तर्हि कुत्रायं हेतुरुपन्यस्त इति वक्तव्यम् ।। सर्वज्ञो नास्तीत्यत्र चेत् हन्त ! तर्हि सर्वज्ञधर्मिक नास्तित्वसाधने व्यापप्राणो विकल्पसिद्धिमेव भगवतीमुपासीनोऽभूः । अहो ! दारुणो मोहः स्ववाचा प्रतिपेदानोऽपि विकल्पसिद्धिमपजानीते इति ।
तथाचोक्तम्
" विकल्पाद् धर्मिणः सिद्धिः क्रियतेऽथ निषिध्यते । द्विधापि धर्मिणः सिद्धिर्विकल्पात्ते समागता ॥ १ ॥ द्वयमपि न करोमीति तु क्लीववचनम्, विधिप्रतिषेधयोर्युगपद् विधानस्य प्रतिषेधस्य चासम्भवात्, यदि च द्वयमपि न करोषि
१४