________________
१०४
प्रमाणपरिभाषा -
२२ । व्यधिकरणासिद्धो यथा - शब्दोऽनित्यः पटस्य कृतकस्वात् पटस्य कृतकत्वं हि पटे विद्यमानं शब्दधर्मिकानित्यत्वाद् व्यधिकरणम् । २३ । एवमन्येपि भूयांसोऽसिद्धभेदाः प्राज्ञैः स्वयं विवेचनीयाश्चकासति ते कथं नाभ्यधिषत ? | कुत्र वा'ऽन्तर्विभावयिषां भूवानाः ? अत्राहविशेष्यासिद्ध्यादिस्तत्कोडीकृतः ॥ ४१ ॥
अयमर्थः, उक्तेष्वसिद्धभेदेषु ये हेत्वाभासतां भजन्ते ते वासिद्धत्वेन विवक्ष्यमाणा वाद्यसिद्धाः, प्रतिवाद्य सिद्धत्वेन विव क्ष्यमाणाः प्रतिवाद्यंसिद्धाः, तदुभयासिद्धत्वेन पुनर्विवक्ष्यमाणा उभयासिद्धा वेदितव्याः । व्यधिकरणाश्रयासिद्धादयस्तु विचार्यमाणा न हेत्वाभासीभवितुं समुत्सासहयः, तथाहि - व्यधिकरणादपि पित्रोर्ब्राह्मण्यात् पुत्रे ब्राह्मण्यानुमानं सर्वजन - प्रसिद्धम् ।
उवाच च भट्टोऽपि -
" पित्रोव ब्राह्मणत्वेन पुत्रब्राह्मणतानुमा । सर्वलोकप्रसिद्धा न पक्षधर्ममपेक्षते " ॥ १ ॥ इति ।
न चात्र नटभटादीनामपि ब्राह्मण्यं कस्मान्नेदं गमयतीति युक्तं वक्तुम्, पक्षधर्मोऽपि हि पर्वतद्रव्यत्वं पर्वते चित्रभानुं कथं नानुमापयतीति प्रत्याक्षेपे किमन्वेषेतोद्धरणम् ? । व्यभिचारादगमकत्वे तु समः समाधिः । ननु प्रतिभोहशक्त्याऽन्यथाभिधानेsपि ब्राह्मणजन्यत्वादिति हेत्वर्थे प्रतिपद्य सुसंभवा तत्प्रतिपत्तिरिति चेत्तदप्यल्पीयः, एवं तु प्रतिभोहशक्त्यैव पटस्य कृतकस्वादित्यभिधानेऽपि पटस्य कृतकत्वेनानित्यत्वं दृष्टम्, एवं शब्दस्यापि तत एवास्त्विति प्रतिपत्तौ नायमपि व्यधिकरणः स्यात् तस्माद्यथोपात्तो हेतुस्तथैव तद्गमकत्वं चिन्तयितव्यम् । न च यस्मात् पटस्य कृतकत्वं तस्मादन्येनापि भवितव्यमनित्यत्वे -