________________
न्यायालङ्कारालङ्कृता ।
तार इति ॥४१॥ अथ विरुद्धं निर्वक्ति
अन्यथैवोपपन्नो विरुद्धः ॥४२॥ साध्यं विनैवोपपन्नः अन्यथैवोपपन्नो विरुद्धो हेत्वाभासः सर्वथा साध्यसामानाधिकरण्यपराङ्मुखः साध्याभावव्याप्य इति यावद् । यथा शब्दो नित्यः कार्यत्वात् । तुरङ्गोऽयं विषाणित्वात् । बुद्धिमत्पूर्वकं क्षित्यादि कार्यत्वात् । अत्र चाशरीरसर्वज्ञपूर्वकत्वे साध्ये कार्यत्वं विरुद्धसाधनाद् विरुद्धमिति ॥ ४२ ॥
अन्येऽप्यन्याभिहिता विरुद्धभेदा उक्तलक्षणेनैव सञ्जगृ. हाणा इत्युपदर्शयन्नाहसपक्षसत्त्वाऽसत्त्वे पक्षविपक्षव्यापकादि
स्तत्प्रपञ्चः ॥४३॥ तत्र सपक्षसत्त्वे चतुर्पु विरुद्धषु आद्यः पक्षविपक्षव्यापको यथा- नित्यः शब्दः कार्यत्वात् , सपक्षोऽत्र चतुर्वपि गगनादिनित्यः । स्वकारणसमवायः कार्यत्वम् , उत्पादविनाशोपलक्षिता सत्तानित्यत्वमित्येकेषामभिसन्धिः, तदभिसन्धिना प्रागभावस्यापि नित्यत्वेन युक्तं विरुद्धोदाहरणम् , अन्यथा कार्यत्वं विपक्षव्यापि न स्यात् । यदात्वादिमत्त्वमेव कार्यत्वम् , तदा प्रध्वंसस्य नित्यत्वेऽपि कार्यत्वमस्तीत्यनैकान्तिकं स्याद् न विरुद्धमिति, अयं च हेतुः पक्षे शब्दे विपक्षे घटादौ व्याप्य वर्त्तते ।।
विपक्षकदेशवृत्तिः पक्षव्यापको यथा-नित्यः शब्दः सामान्यवत्त्वे सत्यस्मदादिबहिरिन्द्रियग्राह्यत्वात् , अर्हत्यर्थे कृत्पत्ययाभिधानाद् ग्रहणयोग्यत्वमानं ग्राह्यत्वं बोध्यम् , तेनाऽस्य पक्षव्यापकत्वं नानुपपन्नम् , विपक्षे तु घटादौ समस्ति न