________________
१०२
प्रमाणपरिभाषा---
दिविवेकविकलः कश्चिदाह-अग्निमानेष देशो धूमात् , अत्र धूमो हेतुः सन्दिग्धासिद्धः तत्स्वरूपसन्देहात् ॥ ३९ ॥
असिद्धप्रभेदान् प्राहउभयाऽन्यतरासिद्धाभ्यां द्विधा ॥४०॥
उभयासिद्धोऽन्यतरासिद्धश्चेति द्वौ भेदौ । तत्रोभयपदं वादिप्रतिवााभयार्थकम् , अन्यतरपदं तदन्यतरग्राहकम् । तत्राद्यो यथा-परिणामी शब्दश्चाक्षुषत्वात् ; द्वितीयो यथा- अचेतनास्तरवो विज्ञानेन्द्रियायुनिरोधलक्षणमरणरहितत्वात् , एतच्च प्रतिचायसिद्ध्यपेक्षया द्रष्टव्यम् । ताथागता हि तरूणामचैतन्यं प्रसाधयांबभूवांसो विज्ञानेन्द्रियायुर्निरोधलक्षणमरणराहित्यं हेतू. चक्रुः स चासिद्ध आहेतानाम् , तैस्तत्र चैतन्याद्यभ्युपगमात् ।
वाद्यसिद्ध्यपेक्षया तु परिणामी शब्द उत्पत्तिमत्त्वादित्यत्रोत्पत्तिमत्त्वात् , अत्र हि वादिनः कापिलस्यासिद्धमुत्पत्तिमत्त्वं तेनाऽविर्भावमात्रस्य सर्वत्रोरीकारात् ॥ ४० ॥
नन्वन्येपि परैरसिद्धप्रकारा जगदिरे, तथाहि
विशेष्यासिद्धस्तावत् शब्दोऽनित्यः सामान्यवत्वे सति चाक्षुषत्वात्, इति अत्र चाक्षुषत्वं विशेष्यमसिद्धम् , शब्दस्य श्रावणत्वात् । १ । विशेषणासिद्धो यथा-शब्दः परिणामी चाक्षुषत्वे सति सामान्यवत्वात् , अत्र चाक्षुषत्वं विशेषणमसिद्धम् , ।२। आश्रयासिद्धो यथा-अस्ति प्रधान विश्वस्य परिणामिकारणत्वात् । ३ । आश्रयैकदेशासिद्धो यथा-नित्याः प्रधानपुरुषेश्वराअकृतकत्वात् । ४ । सन्दिग्धाश्रयासिद्धो यथा-गोत्वेन सन्दिह्यमाने गवये आरण्यकोऽयं गौर्जनदर्शनोत्पन्नत्रासत्वात् । ५ । सन्दिग्धाश्रयैकदेशासिद्धो यथा- गोत्वेन सन्दिह्यमाने गवये गवि च आरण्यकाविमौ गावौ जनदर्शनोत्पन्नत्रासत्वात् । ६ । आश्रयासन्दिग्धत्यसिद्धो यथा-मयूरवानेष प्रदेशः केकायितो