________________
न्यायालङ्कारालङ्कृता।
तत्राधिगतसाध्यधर्मविशेषणो यथा- जैनान् प्रत्यवधारणवर्ज परेण प्रयुज्यमानः समस्ति जीव इत्यादिः, अवधारणं हि वर्जयित्वापरोपन्यस्तः सर्वोपि प्रयोग आहेतानां प्रतीतमेवार्थ प्रकाशयति, ते हि जीवादिसर्ववस्त्वनेकान्तात्मकं प्रत्यपत्सत ततस्तेषामवधारणरहितं प्रमाणवाक्यं सुनयवाक्यं वा प्रयुज्यमानं प्रसिद्धमेवार्थमुद्भावयतीति व्यर्थस्तत्प्रयोगः । सिद्धसाधनः, प्रसिद्धसम्बन्ध इति द्वयं नामान्तरमेवाऽस्य ।
इत्युक्तः पक्षाभासः। अथ हेत्वाभासावसरस्तत्र हेतुलक्षणशून्या हेतुवदाभासमाना हेत्वाभासा ज्ञेयाः, अविनाभावाभाव एव हेत्वाभासत्वबीनमित्यर्थः, तान् विभागतो विशेपलक्षणतश्वाऽसुज्ञानतया प्राचीनपद्धतिमनुव्रजन् भगवान् सूत्रकार स्वयं मूत्रतः पाहअसिद्ध-विरुद्धा-ऽनैकान्तिका हेत्वाभासाः॥३८॥
यद्यप्यते साधनदोषा एव दुष्टे साधने तद्भावात् तथापि । साधनाभिधायके हेतावुपचारात् प्राचीनमूरिमित्रैः प्रोचानत्वेन तत्प्रसिद्धिवाधामनाश्रयद्भिस्तत्रभवद्भिरपि हेतुदोषत्वेनैव बभापाणाः । साधनं हेतुरित्यनान्तरत्वाभिसन्धिरेव वा समाधिः। त्रय एवैते हेत्वाभासा इति तु स्वयं दर्शयिष्यतेऽनुपदं भगवदाचार्येणेति तत्रैवोन्मीलितः परीक्षालेश इत्यास्तां तावत् ॥३८॥ तत्रासिद्धस्य लक्षणमाचष्टे
अप्रतीतोऽसिद्धः ॥ ३९॥ अप्रतीतिश्च स्वरूपाभावनिश्चयात् स्वरूपे सन्देहाद्वा । स्वरूपाभावनिश्चये स्वरूपासिद्धो हेतुः, स्वरूपसन्देहे पुनः सन्दिग्धासिद्धः । तत्राद्यो यथा- शब्दः परिणामी चाक्षुषत्वादित्यत्र चाक्षुषत्वम् , शब्दस्य हि श्रावणत्वेन चाक्षुषत्वाभावो निश्चित इति चाक्षुषत्वं स्वरूपासिद्धो हेतुः । द्वितीयो यथा धूमबाष्पा