________________
प्रमाणपरिभाषा- - :
बाधितसाध्यधर्मविशेषणो यथा- शुचि नरशिरःकपालमिति लोके हि नरशिरःकपालादीनामशुचित्वं प्रसिद्धम् । स्ववचनबाधितसाध्यधर्मविशेषणो यथा-माता मे वन्ध्येति यदि च माता कथं तत्र वन्ध्यत्वं यदि वा बन्ध्या कथं तत्र मातृत्वम् ?, इति ख्वचनव्याघातः । एवं निरन्तरमहं मौनीत्याद्यपि । यद्यपि स्ववचनस्य शब्दरूपत्वात् तद्बाधितसाध्यधर्मविशेषणः पक्षाभासः प्रागभिहितागमबाधितसाध्यधर्मविशेषण एव पक्षाभासेऽन्तर्गच्छति तथापि शिष्यमनीषाविकाशार्थ पार्थक्येनाभिधानमस्यन दोषमावक्ष्यति । एवमेव लोकबाधितसाध्यधर्मविशेषणः पक्षाभासोऽपि द्रष्टव्यः, लोकप्रतीतिर्हि प्रत्यक्षाद्यन्यतरप्रमाणरूपेति तद्बाधितसाध्यधर्मविशेषणः पक्षाभासः प्रत्यक्षबाधितसाध्यधर्मविशेषणादिपक्षाभासेष्वन्तर्भवत्येव शिष्यशेमुषीसमुल्लासार्थ तु नायुक्तमिदमीयं पृथगभिधानम् । प्रतीतिबाधितसाध्यधर्मविशेषणं पक्षाभासमप्याहुः-- अचन्द्रः शशीति शशिनश्चन्द्रशब्दवाच्यत्वं प्रतीतिसिद्धम् । एवं स्मरणबाधितसाध्यधर्मविशेषणः पक्षाभासो यथा- स रसालपादपः फलशून्य इति अयं पक्षः कस्यचिद् रसालतरं फलभरभ्राजिष्णुं सम्यक्स्मर्तुः स्मरणेन बाध्यते । प्रत्यभिज्ञानबाधितसाध्यधर्मविशेषणो यथा- सदृशेऽपि कचन वस्तुनि कश्चन कञ्चन पुमांसमधिकृत्य पक्षीकुरुते- तदेवेदमिति, तस्याऽयं पक्षः तेन सदृशमिदमिति प्रत्यभिज्ञानेन बाध्यते । तर्कबाधितसाध्यधर्मविशेषणो यथा- यो यस्तत्तनयः स श्यामः, इति व्याप्तिः साध्वीति अस्यायं पक्षो यो जनन्युपभुक्तशाकाद्याहारपरिणामपूर्वकस्तत्तनयः स श्याम इति व्याप्तिग्रहणेन सम्यक्तर्केण बाध्यते इति ।
अनभिमतसाध्यधर्मविशेषणो यथा-स्याद्वादिनः शाश्वतिक एव कलशादिरशाश्वतिक एव वेति वदतः; एवं नित्यः शब्द इति वदतस्ताथागतस्य प्रकृतः पक्षाभासः।।