________________
न्यायालङ्कारालङ्कृता।
अथोपनयं ब्रवीतिसाधनस्य धर्मिण्युपसंहार उपनयः ॥३६॥
उपसंहियतेऽनेनेत्युपसंहारः, उपनीयतेऽनेनेत्युपनयो वचनात्मकः, यथा धूमवांश्चायमिति ॥ ३६ ॥ निगमनं गमयति
साध्यस्य निगमनम् ॥ ३७॥ धार्मिण्युपसंहारः साध्यधर्मस्य, प्रतिज्ञाहेतूदाहरणोपनयाः साध्यलक्षणकार्थतया निगम्यन्ते सम्बन्ध्यन्तेऽनेनेति निगमनम् । यथा तस्मादग्निमानयमिति ॥ ३७॥
उक्तमनुमानम् । अथानुमानाभासं प्रदर्शयामः
पक्षाभासादिसमुद्भवं ज्ञानमनुमानाभासम् । एतच्च यदा स्वप्रतिपत्त्यर्थं तदा स्वार्थानुमानाभासं यदा तु परप्रतिपत्त्यर्थं तदा परार्थानुमानाभासम् । तत्र बाधितसाध्यधर्मविशेषणः, अनभिमतसाध्यधर्मविशेषणः, अधिगतसाध्यधर्मविशेषणश्चेति त्रयः पक्षाभासाः । अबाधिताभिमतानंधिगतसाध्यधर्मविशिष्टधर्मिणां सम्यक्पक्षत्वेन प्रागुपवर्णितत्वादेतेषां च तद्विपरीतत्वात् । बाधितसाध्यधर्मविशेषणः प्रत्यक्षानुमानागमलोकस्ववचनादिभिः साध्यधर्मस्य बाधनाद्बहुविधः, तत्र प्रत्यक्षबाधितसाध्यधर्मविशेषणो यथा- अनुष्णोऽनलः, न मधु मधुरम् , न सुगन्ध विदलन्मालतीमुकुलम् , अचाक्षुषः कलशः, अश्रावणः शब्दः, नास्ति बहिरर्थ इत्यादि । अनुमानबाधितसाध्यधर्मविशेषणो यथा- अपरिणामी शब्द इति । एषा हि प्रतिज्ञा परिणामी शब्दः कृतकत्वस्य तथैवोपपत्तेरित्यनुमानेन बाध्यते, आगमबाधितसाध्यधर्मविशेषणो यथा- प्रेत्याऽसुखप्रदो धर्म इति परलोके धर्मस्य सुखप्रदत्वं सर्वागमसिद्धम् । एवं जैनेन रजनीभोजनं भजनयिम् , जैनेन परकीयकलत्रमभिलषणीयमित्यादि । लोक