________________
प्रमाणपरिभाषा--
व्यापारोपलब्धेः । नापि द्वितीयः, विपक्षे बाधकादेव तत्सिद्धेः, न हि सपक्षे सत्त्वमात्राद्धेतोर्व्याप्तिः सिद्धिसौधमध्यास्ने, स श्यामस्तत्पुत्रत्वादितरतत्पुत्रवदित्यत्र तदाभासेऽपि तत्सम्भवात् । ननु साकल्येन साध्यनिवृत्तौ साधननिवृत्तेरत्रासम्भवात् परत्र गौरेऽपि तत्पुत्रे तत्पुत्रताया भावान्न व्याप्तिस्तर्हि साकल्येन साध्यनिवृत्तौ साधननिवृत्तिनिश्चयरूपाद् बाधकादेव व्याप्तिप्रसिद्धरलं दृष्टान्तकल्पनया । अपि च दृष्टान्तो व्यक्तिरूपो भवति यथाऽग्नौ साध्ये महानसादिः, व्यक्तिरूपं च निदर्शनं कथं तदविनाभावनिश्चयार्थं स्यात् ?; प्रतिनियतव्यक्ती तन्निश्चयस्य कर्तुमशक्तेः, अनियतदेशकालाकाराधारतया सामान्येन तु व्याप्तिः, कथमन्यथाऽन्यत्र साधनं साध्यं गमयेत् । तत्रापि दृष्टान्तेऽमुष्यां व्याप्तौ विप्रतिपत्तौ सत्यां दृष्टान्तान्तराऽन्वेषणे दुर्वारोऽनवस्थानदूषणावतारः। नापि तृतीयः। प्रतिपन्नाऽविनाभावस्य व्युत्पन्नधियः पक्षसाधनप्रयोगादेव तत्सिद्धेः । व्यर्थ चान्ताप्त्या हेतोः साध्यप्रत्यायने शक्तावशक्तौ च बहि
याप्तेरुद्भावनम् , “मत्पुत्रोऽयं बहिर्वक्ति एवंरूपस्वराऽन्यथाऽनुपपत्तेः" इत्यत्र बहिर्याप्त्यभावेपि गमकत्वस्य "स श्यामः तत्पुत्रत्वात् इतरतत्पुत्रवत्" इत्यत्र पुनस्तद्भावेप्यगमकत्वस्योपलब्धेः । अन्तर्व्याप्तिबहियाप्तिस्वरूपपरिचयार्थं तु "पक्षीकृत एव विषये साधनस्य साध्येन व्याप्तिरन्ताप्तिरन्यत्र तु बहिाप्तिः" । "यथाऽनेकान्तात्मकं वस्तु सत्वस्य तथैवोपपत्तेरिति, अग्निमानयं देशो धूमवत्वाद् य एवं स एवं यथा पाकस्थानमिति च" इति द्विसूत्री स्मरणीया । एवमुपमाननिगमनयोरपि नास्ति परप्रतिपत्तौ सामर्थ्य पक्षसाधनप्रयोगादेव तस्याः सिद्धेः। अन्यच्च प्रयुज्याऽपि दृष्टान्तादि समर्थनमवश्यं हेतोरभिधानीयमितरथा साध्यसिद्ध्यसम्भवात् तस्मात्तदेव समुचिताभिधानं पर्याप्तं दृष्टान्तादिवचनेन; नन्वेवं तर्हि दृष्टान्तादिः सर्वथा निरु