________________
न्यायालङ्कारालङ्कृता ।
९५
मध्ये एकतरः प्रयोक्तव्य एकेनैव साध्यप्रतिपत्तिसिद्धरन्यस्य वैयाद् द्वयोस्तात्पर्यसाम्यात् । एतदुक्तं भवति शब्दानामभिधेयमन्यत्, प्रकाश्यं प्रयोजनमन्यत् , तत्राभिधेयापेक्षया वाचकत्वं भिद्यते प्रकाश्यं त्वभिन्नमन्वये कथिते व्यतिरेकगति
यतिरेके चान्वयगतिरित्युभयत्रापि साधनस्य साध्याविनाभावः प्रकाश्यते । न च यत्राभिधेयभेदस्तत्र तात्पर्येणापि भेत्तव्यमित्यस्ति नियमः पीनो देवदत्तो दिवा न भुङ्क्ते पीनो देव. दत्तो निशि भुङ्क्ते इत्यनयोर्वाक्ययोरभिधेयभेदेपि तात्पर्यभेदाभावादिति तात्पर्यैक्ये एकतर एक साधनप्रयोगः कामचारेण प्रयोक्तव्य उभयस्य नैरर्थक्यात् , प्रयोगयुग्मेऽपि हि वाक्यविन्यास एव विशिष्यते न प्रकाशनीयोऽर्थः, स चान्यतरेणैव प्रयोगेण प्रकटीस्यादिति कृतमपरप्रयोगेण ।
आह च भगवान् श्रीसिद्धसेनदिवाकरः"हेतोस्तथोपपच्या वा स्यात्पयोगोऽन्यथाऽपि वा। द्विविधोऽन्यतरेणाऽपि साध्यसिद्धिर्भवेदिति"॥१॥इति ॥२९॥
एवं च पक्षसाधनप्रयोगलक्षणमवयवद्वयमेव परमतिपत्तेरङ्गमित्युक्तं भवति न दृष्टान्तादिवचनं व्युत्पन्नमतीन् प्रति ताभ्यामेव सिद्धेः, तथाहि " प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवा इत्याह मुनिरक्षपादः । तत्र प्रतिज्ञाऽऽगमः, हेतुरनुमानं प्रतिज्ञातार्थस्य तेनानुमायमानत्वात् , उदाहरणं प्रत्यक्षं वादिप्रतिवादिनोयंत्र बुद्धिसाम्यं तदुदाहरणमित्युक्तेः, उपनय उपमानं दृष्टान्तधमिसाध्यधर्मिणोः सादृश्यात् प्रसिद्धसाधात्साध्यसाधनमुपमानमित्यभिधानाद , सर्वेषामेकविषयत्वप्रदर्शनफलं निगमनमिति । तत्र नोदाहरणमनुमानाङ्गं तद्धि किं साक्षात्साध्यप्रतिपत्यर्थमुपादीयते साध्याविनामावनिर्णयार्थ वा व्याप्तिप्रतिसन्धानार्थ वा ? प्रकारान्तरासम्भवाद् । न तावदाद्यो विकल्पः क्षेमकारः, न हि तत् साध्यप्रतिपत्यङ्गं तत्र पक्षहेतुवचनयोरेव