________________
९४
प्रमाणपरिभाषा___ अनुमेयधर्मविशिष्टो धर्मी पक्ष उक्तस्तस्य प्रयोगस्तेनैव रूपेण बोधकं वाक्यं प्रतिज्ञायतेऽनयेति प्रतिज्ञा । यथा कृशानुमानयं भूधर इति ॥ २६ ॥ ' अथ हेतुस्वरूपं प्रदर्शयति
साधनस्य हेतुः ॥२७॥ ..प्रयोग इति वर्तते साधनस्य निर्णीतसाध्याऽन्यथानुपपत्तिकस्य प्रयोगस्तेनैव रूपेण बोधकशब्दो हिनोति प्रतिपद्यते परोक्षार्थमनेनेति हेतुः । न च धूम इत्यादेरपि हेतुत्वप्रसङ्गः, धूम इति पदस्य साधनप्रयोगत्वाभावात् साधनभावेन साधनबोधकपदस्य साधनप्रयोगत्वात् । न च धूम इति पदं साधनत्वाऽभिव्यञ्जकं पञ्चम्यन्तस्य तृतीयान्तस्यैव वा धूमपदस्य साधनत्वबोधनसामथ्यात् , इति तथाभूतस्यैव धूमपदस्य साधनत्वावबोधननिपुणिममहिम्ना साधनप्रयोगत्वेन हेतुत्वमिति न कश्चिद् दोषः ॥ २७ ॥
अथ भेदद्वयेनाऽमुमाचष्टेतथोपपत्त्यन्यथाऽनुपपत्तिभ्यां वेधा ॥२८॥ - हेतुरिति वर्त्तते स च द्वेधा द्विविधः, तथैव साध्यसद्भावप्रकारेणैवोपपत्तिस्तथोपपत्तिः, अन्यथा साध्याभावप्रकारेणाऽनुपपत्तिरेवान्यथानुपपत्तिश्च । यथा धूमध्वजधारीयं धराधरकन्धरा तद्भाव एव तत्र धूमवत्त्वस्योपपत्तेरसत्यनुपपत्तेर्वा ॥२८॥ तत्किमुभयविधोपि साधनप्रयोगः प्रयोक्तव्यः ?; अत्राहअनयोस्तात्पर्यसाम्यादेकतरः
प्रयोज्यः ॥ २९॥ अनयोस्तथोपपत्यन्यथानुपपत्तिरूपयोः साधनप्रयोगयो