________________
न्यायालङ्कारालङ्कृता । चादिना साध्याविनाभावैकलक्षणहेतुना प्रस्तुतायां स्वपक्षसिदौ प्रतिज्ञाप्रयोगस्य तत्प्रतिबन्धकवाभावात् ततः प्रतिपक्षासिद्धेः । द्वितीयोऽप्यसन् , तत्प्रयोगे प्रतिपाद्यप्रतिपत्तिविशेषस्य प्रयोजनस्य सद्भावात् ; पक्षाप्रयोगे तु केषाश्चिद् मन्दधियां प्रकृतार्थप्रतिपत्त्यभावात् । ये तु तत्प्रयोगमन्तरेणापि प्रकृतार्थ प्रतिपद्यन्ते तान् प्रत्यनुमन्महे तदप्रयोगम् । यदाह- "प्रयोगपरिपाटी तु प्रतिपाद्यानुरोधतः” इति, ततो युज्यत एव गम्यमानस्यापि तस्य प्रयोगः, कथमन्यथा शास्त्रादावपि प्रतिज्ञाप्रयोगः स्यात् । न हि शास्त्रे नियतकथायां प्रतिज्ञा नाभिधीयते अग्निरत्र धूमात् , वृक्षोऽयं शिंशपात्वात् , इत्याद्यभिधानानां तत्र तत्रोपलम्भात् , परानुग्रहप्रवृत्तानां शास्त्रकृतां प्रतिपाद्यावबोधनाधीनधियां शास्त्रादौ प्रतिज्ञाप्रयोगो युक्त एवोपयोगित्वादित्यभिधाने वादेप्यसावस्तु तत्रापि तेषां तादृशत्वात् ।
किञ्च कार्य-स्वभावा-ऽनुपलम्भभेदेन पक्षधर्मत्वादिरूपत्रयभेदेन वा त्रिविधं साधनमुक्त्वाऽसिद्धत्वादिदोषपरिहारेण समर्थयमानः कः खलु प्रामाणिकः पुमान् पक्षप्रयोगं नाङ्गीकुरुते ?। न चाऽसमर्थितो हेतुः साध्यसिद्ध्यङ्गमतिप्रसक्तः, ततः पक्षप्रयोगमनभिलाषुकेण हेतुमनभिधायैव तत्समर्थनं विधानीयम् ; हेतोरनभिधाने कस्य समर्थनमिति चेद् पक्षस्याप्यनभिधाने क हेत्वादि प्रवर्तताम् ?; गम्यमाने प्रतिज्ञाविषय एवेति चेद् गम्यमानस्याऽपि हेत्वादेर्भवतु समर्थनम् । गम्यमानस्यापि हेत्वादेमन्दमतिपतिपत्त्यर्थं वचने तदर्थमेव पक्षप्रयोगाऽऽदरे कः कुक्षिव्यथोदयः । ततः साध्यप्रतिपतिमभिवाञ्छता हेतुप्रयोगवत्पक्षप्रयोगोऽप्यभ्युपगमनीयः, इति ।। २५ ॥
अथ प्रतिज्ञां विभाषते_पक्षस्य प्रयोगः प्रतिज्ञा ॥ २६ ॥