________________
. प्रमाणपरिभाषा-- पतिप्रतिमाम् " इति । एवं स्मरणादेरपि यथासम्भवं पारार्थ्य प्रतिपत्तव्यम् । यदाहुः... "स्मरत्यदो दाशरथिर्भवन् भवा- नमुं वनान्ताद् वनितापहारिणम् । . पयोधिमाबद्धचलज लाविलं
विलध्य लङ्कां निकषा हनिष्यति?" ॥१॥ इत्यादि । आहुश्चात्र महावादिश्रीसिद्धसेनदिवाकरपादाः"स्वनिश्चयवदन्येषां निश्चयोत्पादनं बुधैः । परार्थ मानमाख्यातं वाक्यं तदुपचारतः ॥ १ ॥ प्रत्यक्षेणानुमानेन प्रसिद्धार्थप्रकाशनात् । परस्य तदुपायत्वात् परार्थत्वं द्वयोरपि ॥ २ ॥ प्रत्यक्षप्रतिपन्नार्थप्रतिपादि च यद् वचः । प्रत्यक्ष प्रतिभासस्य निमित्तत्वात्तदुच्यते ॥३॥ साध्याविनाभुवो हेतोर्वचो यत्प्रतिपादकम् । परार्थमनुमानं तत् पक्षादिवचनात्मकम्" ॥४॥ इति ॥२४॥ अथ प्रतिज्ञाया अपि परार्थानुमाने उपयोगित्वमुपदर्शयतिसाध्यधर्मस्याऽऽधारविशेषप्रज्ञापनं
प्रतिज्ञार्थः ॥ २५॥ यथा यत्र यत्र धृमस्तत्र तत्राऽनल इति हेतोः सामान्येनाधारप्रतिपत्तावपि पर्वतादिविशिष्टधर्मिधर्मताप्रतिपत्त्यै धुमश्चात्रेत्येवंरूपमुपसंहारवचनमवश्यमाश्रीयते शाक्यैस्तथा साध्यधर्मस्याऽऽधारविशेषप्रज्ञापनाय प्रतिनियतधर्मिधर्मताप्रसिद्ध्यर्थ प्रतिज्ञाऽपि पक्षप्रयोगरूपाऽवश्यमेषितव्या। . अपि च पक्षप्रयोगः साध्यसिद्धिप्रतिबन्धित्वात् परेषां नाभिमतः, आहोवित् प्रयोजनाभावात् । तत्र प्रथमः पक्षोऽयुक्तः,