________________
न्यायालङ्कारालङ्कृता ।
भिव्यञ्जकः शब्दप्रयोगो वक्ष्यते, तस्मात् तद्वारेण सामान्यलक्षणानुवादेन विशेषलक्षणविधानात् साधनात् साध्यज्ञानमविनाभावरूपेण साधनं समवधार्य साध्यस्योक्तलक्षणस्य परोक्षार्थस्य ज्ञानं सम्यग् निर्णय इत्यर्थः । तच्च परोपदेशापेक्षत्वात् परार्थमनुमानमुच्यते । परार्थानुमानवत्परार्थप्रत्यक्षमपि "पश्य पुर इदं कलधौतशकलम्" इत्युपदेशप्रभवं तद्विषयं निभालनीयम् ।। २३ ॥ ___ इदानी हेतोर्वचनात्मकस्याऽपि प्राचीनरूढ्यनुरोधेन परार्थानुमानत्वमावेदयति
हेतुरुपचारात् ॥ २४॥ अचेतनं हि वचनं न साक्षात् प्रमितिफलसाधनमिति नास्कन्दत्यनुपचरितप्रमाणभावम् , मुख्यानुमानानुकूलतया तूपचरितानुमानाभिधानाभिधेयतामायाति, उपचारः पुनरत्र कार्ये
कारणस्य, यत्प्रतिपादकगतं ह्यनुमान तस्य कार्य तद्वचनम् । कारणे 'वा कार्योचारः, प्रतिपाद्यगतं हि यज्ज्ञानं तस्य कारणं साधनवचनमित्यौपचारिकपनुमानं हेतुः । इह च मुख्यार्थबाधे प्रयोजने निमित्ते चोपचारः प्रवर्तते इत्यनुभवो विदुषाम् । तत्र साधनप्रयोगस्याऽचेतनत्वेन यथार्थज्ञानात्मकप्रमाणत्वस्य तत्र व्यक्तो बाधः, प्रयोजनं चानुमानावयवाः प्रतिज्ञादय इति शास्त्रे व्यवहार एव ज्ञानात्मन्यनंशे तव्यवहाराऽयोगात् ; निमित्तं तु ज्ञानात्मकानुमानहेतुत्वं तस्य । एवं च यथाऽनुमानप्रतीतोऽर्थः परस्मै प्रतिपाद्यमानो वचनरूपापन्नः परार्थमनुमानमुच्यते तथैव प्रत्यक्षप्रतीतोऽपि परस्मै प्रतिपाद्यमानो वचनरूपापन्नः परार्थ प्रत्यक्ष वेदितव्यः परप्रत्यायनस्योभयत्राप्यविशेषात् , तथाच सूत्रे"प्रत्यक्षपरिच्छिन्नार्थाभिधायि वचनं परार्थ प्रत्यक्षम्" " यथा पश्य पुरः स्फुरत्किरणमणिखण्डमण्डिताभरणभारिणीं जिन