________________
९०
प्रमाणपरिभाषा -
स्यापि प्रवृत्तिप्रतीतेः कथं तत्राऽसतीन्द्रियव्यापारे विकल्पस्यापि प्रवृत्तिरित्यभिधानं रमणीयम् ?, धर्माऽधर्मादौ तत्प्रवृत्त्यभावानुषङ्गात् । आगमसामर्थ्यप्रभवत्वेनाऽस्यास्त्र प्रवृत्तौ प्रकृतेष्यतस्तत्प्रवृत्तिर्भवतु विशेषाभावात् । ननु परिणामित्वे साध्ये शब्दधर्मिण इव कृशानुमध्ये साध्ये धरित्रीधरस्यापि प्रमाणविकल्पप्रसिद्धत्वं प्राप्नोति धरित्रीधरेऽपि दृश्यमानभागस्याऽग्निमसाधने प्रत्यक्षवाधात् साधनानर्थक्यप्रसङ्गाद्वा तत्र साध्यसमुपलम्भात्, अदृश्यमानभागस्य च तत्साधने तस्य प्रत्यक्षाभावात् नैवं अवयविद्रव्यापेक्षया पर्वतादेः सांव्यवहारिकप्रत्यक्षप्रसिद्धत्वाभिधानात् अतिसूक्ष्मेक्षिकापर्यालोचने तु न किञ्चित् प्रत्यक्षं स्याद् वहिरन्तर्वाऽस्मदादिप्रत्यक्षस्याऽशेषविशेषतोऽर्थसाक्षात्कारेऽसामर्थ्याद्, योगिप्रत्यक्षमेव किल तत्रालमिति । विकल्पप्रसिद्धस्य सत्तेतरसाध्यकत्वोपदर्शनेन प्रमाणोभयप्रसिद्धधर्मिणोः कामचार एव द्रष्टव्यः साध्यविशेषानुपदर्शनात्, सत्तेतरसाध्यकत्वं तु तत्र न सम्भविष्विति तु सुज्ञानमेव ।
,
अवसितं स्वार्थानुमानम्, तस्य च त्रीण्यङ्गानि धर्मी साध्यं साधनं च तत्र साधनं गमकत्वेनाऽङ्गम्, साध्यं च गम्यत्वेन, धर्मी पुनः साध्यधर्माधारत्वेन, आधारविशेषनिष्ठतया साध्यसिद्धेरनुमानप्रयोजनत्वात्, धर्ममात्रस्य तु व्याप्तिनिश्चयकाल एव सिद्धत्वात् “यत्र यत्र धूमवत्त्वं तत्र तत्र वह्निमत्त्वम्” इति । अथवा पक्षो हेतुरित्यङ्गद्वयं तत्र, साध्यधर्मविशिष्टस्य धर्मिणः पक्षत्वात्, इति धर्मधर्मिभेदाभेदविवक्षया पक्षद्वयं द्रष्टव्यमिति ॥ २२ ॥ अथ परार्थानुमानं व्याचष्टे
हेतोः परार्थम् ॥ २३ ॥ हेतुर्निश्चिताविनाभावैकलक्षणस्य साधनस्य साधनत्वा