________________
न्यायालङ्कारालङ्कृता। ८९ यथास्ति सर्वज्ञ इति । इतरद् नास्तित्वं वा साधयितव्यं यथा नास्ति खरविषाणमिति ; यदुक्तं- "विकल्पसिद्धे तस्मिन्सत्तेतरे साध्ये" इति । यत्तु सर्वज्ञसत्तायां साधनीयायां त्रयीं दोषजातिमसिद्ध-विरुद्धा-ऽनैकान्तिकलक्षणां हेतुर्नातिवर्त्तते तथाहि-सकलज्ञसत्त्वे साध्ये किं भावधर्मों हेतुः, उताऽभावधर्मः, अथोभयधर्मः?। आयेऽसिद्धिः, असिद्धसत्ताके भावधर्माऽसिद्धेः द्वितीये विरोधः, भावे साध्येऽभावधर्मस्याऽभावाव्यभिचारित्वेन विरुद्धत्वात तृतीये व्यभिचारः, अस्तित्वशून्येऽपि वृत्तेः । - तदुक्तम्"नासिद्धे भावधर्मोऽस्ति व्यभिवायुंभयाश्रयः ।
विरुद्धो धर्मो भावस्य सा सत्ता साध्यते कथम् ?"॥१॥इति।। __ तदेतदसङ्गतम् । शक्यं हि वदितुं धूमवत्त्वादियद्यग्निमपर्वतधर्मस्तदाऽसिद्धः को हि नामानिमत्पर्वतधर्म हेतुमिच्छन्नग्निमत्त्वमेव नेच्छेत्?, तद्विपरीतधर्मश्चेत् तदा विरुद्धः साध्यविरुद्धसाधनात् ; उभयधर्मश्चेद् व्यभिचारी सपक्षेतरयोर्वर्तनात् ; एवं च सर्वानुमानोच्छेदप्रसङ्गः । विमत्यधिकरणभावापन्नधर्मिधर्मत्वे धूमवत्वादेः सर्व सुस्थम् । यथा च पर्वतस्य पर्वतत्वादिना प्रसिद्धसत्ताकस्य सन्दिग्धाग्निमत्त्वादिसाध्यधर्मस्य धर्मों हेतुर्न विरुध्यते तथैव प्रसिद्धात्मत्वादिविशेषणसत्ताकस्य अप्रसिद्धसर्वज्ञत्वोपाधिसत्ताकस्य च धर्मिणो धर्मः प्रकृतो हेतुः कथं विरुध्येत ?। विकल्पसिद्धो धर्मी नास्त्येव विकल्पस्याऽप्रमाणत्वादित्यूचानो नैयायिकोऽनात्मज्ञशेखरः, विकल्पसिद्धधर्मिणोऽनङ्गीकारे तस्यैवंविधवचनस्यैवानुपपत्तेः विकल्पसिद्धर्मिणोऽप्रसिद्धौ तत्प्रतिषेधासम्भवादिति तुष्णीम्भाव एव तस्याऽऽपप्तत् । नातो विकल्पादन्यतः सर्वज्ञखरविषाणयोः सदसत्तायां साध्यायां समस्ति सिद्धिस्तत्रेन्द्रियव्यापाराभावात् । न चेन्द्रियप्रतिपन्न एवार्थे मनोविकल्प
१२