SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्तासमुच्चयः । "हिंसादिसंसक्तपथोपदेशादसर्वविन्मूलतया प्रवृत्तेः । नृशंस दुर्बुद्धिपरिग्रहाच्च, ब्रूमस्तदन्यागममप्रमाणम् ॥ १ ॥” इति, उपसंहरति — ततश्चेति - जैनागमस्य दृष्टेष्टाभ्यामविरुद्धार्थकत्वेन प्राबल्यादन्यागमानां दृष्टेष्टविरुद्वत्वेन दुर्बलतया तद्वाधितत्वतस्तद्वाधकत्वासम्भवाच्चेत्यर्थः, इति एवं पूर्वोक्तम्, अदः वक्तृप्रत्यक्षं "स्वभाव एष" इत्यादि, “हिंसादिभ्योऽशुभादि” इत्यादि च, स्थितम् अप्रामाण्यज्ञानानास्कन्दितागमप्रमाणसिद्धम्॥ ४९ ॥ १६१ ॥ ४४ [ द्वितीयः तथा चाऽहिंसादिकं सुखादिशुभस्य कारणं, हिंसादिकं च दुःखाद्यशुभस्य कारणमिति प्रतिनियतफलजनकं प्रतिनियतं कर्म सिद्धं सत् स्वकर्तारमनुमापयति, स च कर्ता स्वात्मैवेति निगमयति क्लिष्टं हिंसाद्यनुष्ठानं, न यत् तस्यान्यतो मतम् । ततः कर्ता स एव स्यात्, सर्वस्यैव हि कर्मणः ॥५०॥१६२॥ क्लिष्टमिति — रौद्राध्यवसायपूर्वकत्वाद् रौद्रमित्यर्थः, हिंसाद्यनुष्ठानं प्राणिघातादिकरणम्, इदमुपलक्षणमहिंसाद्यक्लिष्टाचरणस्यापि, यत् यस्मात् कारणात्, तस्य स्वात्मनः, अन्यतः अन्यस्मात् स्वव्यतिरिक्तव्यापारवत इत्यर्थः, न मतं नाभ्युपगतम्, नह्यन्यात्मव्यापारतोऽन्यस्य पुण्यपापाद्यनुष्ठानं भवति देवदत्तगतकायिक-वाचनिक-मानसिकयोगेन यज्ञदत्तानुष्ठानाभावात्, किन्तु देवदत्तयोगतो देवदत्तस्यैव हिंसाऽहिंसाद्यनुष्ठानमित्यर्थः, ततः तस्मात् कारणात् स एव अधिकृतात्मैव हि निश्चितम्, सर्वस्यैव कर्मणः स्वीयहिता हितकर्ममात्रस्यैव, कर्ता स्वतन्त्रकारकः, कर्तृव्याप्यं कर्म भवति, तत् प्रति स्वातन्त्र्यं कारणान्तराप्रयोज्यत्वे सति कारणान्तरप्रयोजकत्वं, तथाविधेन स्वातन्त्र्येण स्वव्याप्यस्य कर्मणो हेतुत्वादात्मैव कर्तेत्यर्थः । 9 अत्रेत्थं विवेकमामनन्ति श्रीमन्त उपाध्यायाः- - " अत्र निश्चयतोऽपृथग्भावेन स्वव्याप्यस्य रागद्वेषाद्यध्यवसायलक्षणस्य भावकर्मणः परिणामित्वलक्षणस्वातन्त्र्येण कर्तृत्वम्, व्यवहारेण तु संयोगविशेषेण स्वव्याप्यद्रव्यकर्मणि योगव्यापारस्वातन्त्र्येण कर्तृत्वमिति विवेकः” इति ॥ ५० ॥ १६२ ॥ ननु प्रयोजनमनुद्दिश्य मन्दोऽपि न प्रवर्तते, यच्च यस्येष्टं तदेव तस्य प्रयोजनं, तथा च चेतन आत्मा कर्ता यदेव स्वहितं जानीयात् तत्रैव प्रवर्तेत, स्वतन्त्रस्यास्य न पराधीना प्रवृत्तिर्येन बलात् परेण प्रेरितोऽहितेऽपि प्रवर्तेतेत्यत आह www
SR No.022389
Book TitleShastra Vartta Samucchay Part 02
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy