SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः निवर्तनादिति बोध्यम् , न च 'मरणानुकूलव्यापारेण' इत्येवास्तु किमधिकेनेति वाच्यम्, अप्रमत्तहिंसायामतिव्याप्तेः; न चैवमप्यनाभोगाविघटनेनाप्रमत्तहिंसाया हिंसात्वापत्तिः, शक्यविघटनत्वस्य व्यापारविशेषणत्वात् ; न चैवमप्यनशनादावतिव्याप्तिः, परजीवग्रहणे चात्महिंसायामव्याप्तिरिति वाच्यम्, शुभसङ्कल्पापूर्वकत्वस्य मरणव्यापारविशेषणत्वात् ; न चैवं याज्ञिकानामपि त्वङ्गहिंसायां शुभसङ्कल्पान्न दोष इति वाच्यम् , विधिजन्यमोक्षेच्छाया एव शुभसङ्कल्पपदेन ग्रहणात्, अत एव राज्यादिनिदानार्थमनशनमप्यात्महिंसां वदन्ति तान्त्रिकाः; द्रव्यभावोभयहिंसालक्षणं चैतत्, कर्मबन्धजनकता तु प्रकृतिप्रदेशावाश्रित्य प्रमत्तयोगत्वेन, स्थितिरसौ चाश्रित्य क्लिष्टाध्यवसायत्वेन, इत्यन्यत्र विस्तरः। तस्माद् हिंसायामहिंसात्वं समर्थयतां परेषां वेदावलम्बनमपि महतेऽनय, उक्तं च "ये चक्रुः क्रूरकर्माणः, शास्त्रं हिंसोपदेशकम् । क ते यास्यन्ति नरके, नास्तिकेभ्योऽपि नास्तिकाः॥१॥ वरं वराकश्चार्वाको, योऽसौ प्रकटनास्तिकः । वेदोक्तितापसच्छद्मच्छन्न रक्षो न जैमिनिः ॥ २ ॥ . [योगशास्त्रे द्वितीयप्रकाशे श्लो० ३७-३८ ] इति, वेदाप्रामाण्य पापकर्मणि प्रवर्तकत्वात् , परपरिगृहीतत्वाच्च विभावनीयम्, इति किमपि हिंस्त्रेण सह बहुविचारणया। एतदत्र विततीक्रियमाणं ग्रन्थगौरवभयमादधातीत्यतो यथोल्लिखितमेवोपाध्यायसन्मतितरङ्गितमाकलयन्त्वहिंसाधर्मपरायणा विद्वांसः ॥ ४८ ॥ १६० ॥ "यथा चोक्तदिशा याज्ञिक-मीमांसकाद्यागमे दृष्टेष्टाभ्यां विरुद्धता तथा आजीवकाद्यागमेऽपीत्याह अन्येषामपि बुद्धयैवं, दृष्टेष्टाभ्यां विरुद्धता । दर्शनीया कुशास्त्राणां, ततश्च स्थितमित्यदः॥४९॥१६१॥ अन्येषामपीति-एवंजातीयानां स्थूलमत्युल्लसिताना, कुशास्त्राणाम् आजीवकादिसम्बन्धिनां शास्त्राभासानाम्, एवम् उपदर्शितप्रकारेण, बुद्धया सम्यग् विचारणया, दृष्टेष्टाभ्यां प्रत्यक्षप्रमाणादि-स्वाभ्युपगमाभ्यां, विरुद्धता बाधितार्थता, दर्शनीया प्रतिपादनीया, उपदर्शितजातीयत्वस्य दुष्टत्वगमकस्य तेष्वपि भावात्, उक्तार्थसंवादि च कलिकालसर्वज्ञश्रीहेमचन्द्रसूरिवचनमिदम्
SR No.022389
Book TitleShastra Vartta Samucchay Part 02
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy