________________
स्याद्वादवाटिकाटीका सङ्कलितः
अनादिकर्मयुक्तत्वात्, तन्मोहात् संप्रवर्तते । अहितेऽप्यात्मनः प्रायो, व्याधिपीडितचित्तवत् ॥ ५१ ॥ १६३ ॥ अनादीति । सेत्यनुवर्तते स आत्मा, अनादिकर्मयुक्तत्वात् व्यक्त्या कर्मणः सादित्वेऽपि प्रवाहतोऽनादित्वात् कर्मणोऽनादित्वविशेषणेन हि 'अहितप्रवृत्तिः क्लिष्टकर्मणो भवति, तच्च क्लिष्टं कर्माहितप्रवृत्त्यन्तरात्' इत्येवमन्योऽन्याश्रयो न दोषायेति सूच्यते, यदि ययाऽहितप्रवृत्तिव्यक्त्या या क्लिष्टकर्मव्यक्तिरुपजायते तयैव क्लिष्टकर्मव्यक्त्या सैवाहितप्रवृत्तिरुपजायते इत्येवमभ्युपगम्येत तदा तयोरन्योऽन्याश्रय उत्पत्तिप्रतिबन्धकत्वाद् दोषः स्यात्, यतः कार्यकारणभावः कारणस्य पूर्वकालवर्तित्वे कार्यस्योत्तरकालवर्तित्वे च भवति, या चाहितप्रवृत्तिर्येन क्लिष्टकर्मणा जायते सा तत्कष्टकर्मण उत्तरकालीनैव, न तत्पूर्वकालीनेति कथं सा तत्कर्मकारणं, तथा तत्कर्म तत्प्रवृत्तितो जनितं तदुत्तरकालीनमेव, न तत्पूर्वकालीनमिति कथं तत् तत्प्रवृत्तिकारणमिति व्यक्त्योरन्योऽन्यकार्यकारणभावासम्भवात् तथाऽन्योऽन्याश्रयो भवत्युत्पत्तिप्रतिबन्धकः, यदा तु यामहितप्रवृत्तिं प्रति यत् कर्म कारणं तत् कर्म तत्प्रवृत्तिजातीयप्रवृत्त्यन्तरत उपजायते, तत्प्रवृत्तिजातीयप्रवृत्त्यन्तरं च तत्कर्म - जातीयकर्मान्तरतो भवति, तदा कार्यकारणभावनियामकपूर्वापरभावतः कार्यकारणभावस्य सम्भवेन नोत्पत्तिप्रतिबन्ध इत्यहितप्रवृत्तिजातीय-क्लिष्टकर्मजातीययोरन्योऽन्याश्रयो न दोषः, यथा बीजादङ्कुरं भवति, अङ्कुराच्च बीजमित्येवं बीजाङ्कुरयोरन्योऽन्याश्रयो न दोषः, तत्रापि बीजाङ्कुरप्रवाहस्यानादित्वान्न बीजाङ्कुरव्यक्त्योरन्योऽन्याश्रयः, किन्तु तज्जातीययोरेवेति नोत्पत्तिः, एवं तज्ज्ञानस्य तज्ज्ञानेन सहान्योऽन्यापेक्षायां व्यक्त्यपेक्षयाऽन्योऽन्याश्रयो ज्ञप्तिप्रतिबन्धकत्वाद् दोषो भवति, जात्यपेक्षयाऽन्योऽन्याश्रयस्तु ज्ञह्यप्रतिबन्धकत्वाद् दोषो न भवतीति, तथा च प्रवाहतो - ऽनादिकर्मयुक्तत्वाद्धेतोरित्यर्थः, तन्मोहात् कर्मजनितमौढ्यात्, आत्मनः स्वस्य, अहितेऽपि नरकादिदुःखजनकहिंसाद्यनुष्ठानेऽपि संप्रवर्तते सम्यक् प्रवर्तते, प्रायो बाहुल्येन कश्विदेवात्मा न तत्रादरेण प्रवर्तते इति ज्ञापनाय प्रायः पदम्, निदर्शनमाह-व्याधिपीडितचित्तवदिति - रोगाकुलहृदयपुरुषवदित्यर्थः, यथा व्याधिग्रस्तः पुमान् इदमपथ्यमित्येवं जानन् अजानन् वा बहुकालस्थितिकव्याधिमहिम्नाऽपथ्यभक्षण एव प्रवर्तते, तथा संसार्यपि पुरुष इदमहितमित्येवं जानन् अजानन् वा प्रायोऽहित एव कर्मदोषात् प्रवर्तत इति ॥ ५१ ॥ १६३॥
अत्र
स्तबकः ]
४५