________________
स्तबकः ] स्याद्वादवाटिकाटीकासङ्कलितः
नैयायिकास्तु-“इष्टसाधनत्वं कृतिसाध्यत्वं बलवदनिष्टानुबन्धित्वं च इति त्रयमेव विध्यर्थः, तत्र क्रत्वर्थहिंसायां साक्षान्निषेधाभावात् प्रायश्चित्तानुपदेशाचेष्टसाधनत्वकृतिसाध्यत्ववबलवदनिष्टाननुबन्धित्वमपि विधिना बोध्यते, इति न तस्या अनर्थहेतुत्वम्, श्येनादेश्वाभिचारस्य साक्षादेव निषेधात् प्रायश्चित्तोपदेशाचानर्थहेतुत्वावगमात् तावन्मानं तत्र विधिना न बोध्यते, इति सङ्गतं श्येनामीषोमीययोर्कंलक्षण्यम्" इत्याहुः, तदप्यसत्-'ऋत्वङ्गहिंसायामपि सामान्यनिषेधानुरोधेनानर्थहेतुत्वावश्यकत्वात् , तत्प्रायश्चित्तबोधकवेदस्यापि कल्पनात् , सामान्यनिषेधविधिसंकोचे शक्यार्थत्यागेन वेदे लक्षणाश्रयणस्यातिजघन्यत्वात् , अन्यथा "रात्रौ श्राद्धं न कुर्वीत" [ ] इत्यत्रापि नजो भेदवत्परत्वेन गुणविधेः, अधिकारविधेर्वा प्रसङ्गात् , “अमावास्यायां पितृभ्यो दद्यात्”[ ] इत्यादिविधिबोधितश्राद्धजन्यतावच्छेदकपुण्यत्वावान्तरजातिव्यापकजात्यवच्छिन्नं प्रति रात्रीतरश्राद्धकरणस्य कारणत्वेन रात्रिकृतश्राद्धात् फलानुत्पादसंभवात् , अथ तत्रापि विशेषनिषेधे सामान्यविधेस्तदितरपरत्वव्युत्पत्त्या प्रसज्यनजैवोपपत्तौ नजो भेदवत्परत्वं न स्वीक्रियत इति चेत् ? तर्हि सामान्यविधेरसङ्कोचानुरोधेन निषेधविधौ विशेषणाभावमात्रविषयत्वं स्वीक्रियतां विकल्प एव वा, यैस्तु तत्र पर्युदासविषयप्राप्ते श्राद्धे रात्रिभिन्नत्वरूपगुणविधानमेव स्वीक्रियते, न तु राबिभिन्नामावास्यात्वेन निमित्तत्वम् , विशेषणविशेष्यभावविनिगमनाविरहेणातिगौरवात् , तैरत्रापि सामान्यनिषेधविधावक्रत्वङ्गहिंसात्वेन निमित्तत्वं परित्यज्य क्रत्वङ्गहिंसायां श्येन इव बलवदनिष्टाननुबन्धित्वान्वयपरित्यागमात्रे किं न मनो दीयते, प्रवृत्तेस्तद्वदेवोपपत्तेः, एतेन "तेन रूपेण निमित्तताऽऽर्थिकी, इति न शक्यार्थत्यागः" इत्यपास्तम् , अर्थतः ऋत्वङ्गहिंसायां बलवदनिष्टाननुबन्धित्वस्यैवासिद्धेः, श्येन इव तत्र सामान्यनिषेधबाधादेव तदन्वयात् , 'श्येने तदनन्वयप्रयोजकं तात्पर्य, क्रत्वङ्गहिंसायां तु न तत्' इति कल्पनागौरवे हिंसारसिकत्वं विनाऽन्यस्य बीजस्याभावात् । अथाग्नीषोमादेः स्वर्गजनकत्वं श्रुतं, तदङ्गहिंसाया बलवदनिष्टानुबन्धित्वं विरुन्ध्यादिति चेत् ? श्येनस्याभिचारजनकत्वमपि किं न तथा; श्येनजन्यादृष्टस्य शत्रुवधनरकोभयजनकत्वान्न विरोध इति चेत् ? तर्हि त्वङ्गहिंसाजन्यादृष्टस्यापीष्टानिष्टोभयजनकत्वमङ्गीक्रियताम् ; एवं सति पुण्यत्व-पापत्वयोः साङ्कर्यमिति चेत् ? तदिदं तवैव सङ्कटम् , अस्माकं तु पापानुबन्धिपुण्यविपाकनिमित्ततया श्येनाग्नीषोमादीनामिष्टप्रयोजकत्वमात्राभ्युपगमे न किञ्चिद् बाधकम् ; 'यो यद्तफलार्थितया क्रियते स