________________
www
शास्त्रवार्तासमुच्चयः।
[द्वितीयः "नातिराने षोडशिनं गृह्णाति" [ ] इति निषेधात्, तस्मान्न किञ्चिदेतद् इत्याहुः"।
प्राभाकरास्तु-“फलसाधने रागत एव प्रवृत्तिसिद्धेन नियोगस्य प्रवर्तकत्वम् , तेन श्येनस्य रागजन्यप्रवृत्तिविषयत्वेन विधेरौदासीन्यान्न तस्यानर्थहेतुत्वं विधिना प्रतिक्षिप्यते, अग्नीषोमीयहिंसायां तु क्रत्वङ्गभूतायां फलसाधनत्वाभावेन रागाभावाद् विधिरेव प्रवर्तकः, स च स्वविषयस्यानर्थहेतुतां प्रतिक्षिपति, इति प्रधानभूता हिंसाऽनर्थ जनयति न क्रत्वर्था, इति न हिंसामिश्रितत्वेन दुष्टत्वमग्नीषोमीयादेः” इत्याहुः।
इदं च मतद्वयं फलतस्तुल्यमेव, इयांस्तु विशेषो यत्-प्राभाकरमते "चोदनालक्षणोऽर्थो धर्मः"[ ] इत्यत्रार्थपदव्यावर्त्यत्वेनाधर्मत्वं श्येनादेः, भामते तु श्येनफलस्यैवाभिचारस्यानर्थहेतुत्वेनाधर्मत्वम्, श्येनस्य तु विहितस्य समीहितसाधनस्य धर्मत्वमेव, अर्थपदव्यावर्त्य तु कलाभक्षणादेनिषिद्धस्यैव, इति फलतोऽनर्थहेतुत्वेन तु शिष्टानां श्येनादौ न धर्मत्वेन व्यवहार इति, तत्र भामतेऽभिचारः शत्रुवधानुकूलव्यापारः पापरूप एव, इति कथं श्येनस्य नानर्थहेतुत्वम्, इति विधिविषयेऽपि निषेधावकाश एवाऽऽयातः, अनर्थप्रयोजकत्वस्यैव लाघवेन शिष्टप्रयोगानुरोधेन च निषेधविध्यर्थत्वे तु सुतराम् , तस्मादिष्टसाधनत्वमात्रमेव विध्यर्थः, फले उत्कटेच्छाविरहविशिष्टदुःखजनकत्वज्ञानमेव च प्रवृत्तिप्रतिबन्धकम्, इति श्येन इव ऋत्वङ्गहिंसायामपि सामान्यनिषेधवाक्यात् प्रत्यवायजनकत्वबोधेऽपि प्रबलदोषमहिना फले उत्कटेच्छाया अविघातात् प्रवृत्तिरिति न तत्र क्रत्वङ्गत्वानर्थहेतुत्वयोर्विरोधः, इति प्रत्यवायजनकेऽपि प्रवर्तकस्यैतादृशवाक्यस्यार्थशास्त्रत्वमेव न धर्मशास्त्रत्वमिति प्रतिपत्तव्यम्।
प्राभाकरमतेऽपि श्येनस्य विधिना फलसाधनत्वज्ञापनं विना प्रवृत्त्यविषयत्वात् कथं रागजन्यप्रवृत्तिविषयत्वम्, प्रधानहिंसात्वेनाधर्मजनकत्वेऽन्यहिंसाया अधर्मजनकत्वं न स्यात् , रागप्राप्तहिंसात्वेन तथात्वेऽपि रागप्राप्तत्वं यदि विध्यजन्येच्छाविषयत्वम् , तदा श्येनासङ्ग्रहः, यदि चाङ्गविध्यजन्येच्छाविषयत्वम् , तदा श्येनाङ्गासङ्ग्रहः, गौरवं चेति न किञ्चिदेतत् । एतेन “भाट्टदर्शनमवलम्ब्याभिहितम्-अशुद्धम्" इति चेत् "न शब्दात्" इति बादरायणसूत्रमप्यपास्तम् ॥