________________
स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः इत्यहिंसायाः प्रशंसया हिंसाया दुष्टत्वमेवोक्तम् , तथा उत्तरमीमांसायामप्युक्तम्"अन्धे तमसि मजामः, पशुभिर्ये यजामहे । हिंसा नाम भवेद्धर्मो, न भूतो न भविष्यति ॥ १ ॥” इति, तथा व्यासेनाप्युक्तम्"ज्ञानपालीपरिक्षिप्ते, ब्रह्मचर्यदयाम्भसि। स्नात्वा तु विमले तीर्थे, पापपङ्कापहारिणि । ध्यानाग्नौ जीवकुण्डस्थे, दममारुतदीपिते । असत्कर्मसमित्क्षेपैरग्निहोत्रं कुरूत्तमम् ॥ २ ॥ कषायपशुभिर्दुष्टैर्धर्मकामार्थनाशकैः । शममत्रहुतैर्यज्ञं, विधेहि विहितं बुधैः ॥ ३ ॥ प्राणिघातात् तु यो धर्ममीहते मूढमानसः । स वाञ्छति सुधावृष्टिं, कृष्णाहिमुखकोटरात् ॥ ४ ॥” इत्यादि, ततो दुष्टमग्निष्टोमादि कर्माधिकारिणाऽपि दोषासहिष्णुना त्याज्यम् , अन्तःकरणशुद्धेरीदृशेन गायत्रीजपादिनैव बाढमुपपत्तेः' इत्याहुः ।
अत्र भाट्टाः-"न क्रत्वर्था हिंसाऽनर्थहेतुः, विधिस्पृष्टे निषेधानवकाशात्, तथाहि-विधिना बलवदिच्छाविषयसाधनतारूपां प्रवर्तनां कुर्वताऽनर्थसाधने तदनुपपत्तेः स्वविषयस्य प्रवर्तनागोचरस्यानर्थसाधनत्वाभावोऽप्यर्थादाक्षिप्यते, तेन विधिविषयस्य नानर्थहेतुत्वं युज्यते, नहि क्रत्वर्थत्वं साक्षाद्विध्यर्थः, येन विरोधो न स्यात्, किन्तु प्रवर्तनयैव, प्रवर्तना तु पुरुषार्थमेव विषयीकुर्वती क्वचित् ऋतुमपि तथाभावमापन्नं विषयीकरोति, इत्यन्यदेतत् , पुरुषप्रवृत्तिश्च बलवदिच्छोपधानदशायां जायमाना न भाव्यस्यार्थहेतुतामाक्षिपति, किन्तु यथा प्राप्तमेवावलम्बते, बलवदिच्छाविषये स्वत एव प्रवृत्तेः स्वर्गादौ विध्यनपेक्षणात् , अत एव विहितश्येनफलस्यापि शत्रुवधरूपाभिचारस्यानर्थहेतुत्वमुपपद्यत एव, फलस्य विधिजन्यप्रवृत्तिविषयत्वाभावात् , विधिजन्यप्रवृत्तिविषयं तु धात्वर्थ करणं प्रवर्तनाऽवगाहते, सा च नानर्थहेतुं विषयीकरोति, इति विशेषविधिबाधितं सामान्यनिषेधवाक्यं रागद्वेषादिमूलाऽक्रत्वर्थहिंसाविषयम् , तेन श्येनाग्निष्टोमयोवैषम्यादुपपन्नमदुष्टत्वम् , ज्योतिष्टोमादेविधिस्पृष्टस्यापि निषेधविषयत्वे षोडशिग्रहणस्याप्यनर्थहेतुत्वापत्तिः,