SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ww शास्त्रवार्तासमुच्चयः। [द्वितीयः दाहसामान्यनिषेधस्य व्याधिनिवृत्तिफलकदाहातिरिक्तदाहसामान्यनिषेधपरत्वं, तथा "श्वेतं वायव्यमजमालभेत भूतिकामः" [ ] इति हिंसाविशेषविधायकविधौ सति "मा हिंस्यात् सर्वा भूतानि"इति हिंसासामान्यनिषेधकनिषेधविधेरपि यागीयहिंसाव्यतिरिक्तहिंसासामान्यनिषेधपरत्वमेव न्याय्यम् , एतच्च जैनैरप्यवश्यमभ्युपगन्तव्यं, तथानुपगमे जैनस्यापि सामान्यत आधाकर्मिकादिग्रहणनिषेधे सत्यप्यसंस्तरणादिदशायामाधाकर्मिकादिग्रहणविधानं कथमुपपद्यत इति चेत् ? न-आधाकर्मिकग्रहणाग्रहणयोः संयमपालनार्थमेकोद्देशेनैव विधानादुत्सर्गापवादभावव्यवस्थितावपि प्रकृतेऽहिंसायागयोरेकार्थत्वाभावेनोत्सर्गापवादव्यवस्थाया एवायोगात् , एवं च यागीया हिंसा भूत्यादिफलविशेषोद्देशेन क्रियमाणा भूत्यादिफलविशेषजनन्यपि “मा हिंस्यात् सर्वा भूतानि"इत्येवं निषिद्ध्यमाना पापजनिकाऽपीत्येवं विभिसोद्देश्यकत्वे विरोधाभावाद्धिंसासामान्यनिषेधस्य यागीयहिंसातिरिक्तहिंसानिषेधरूपतया संकोचस्यान्याय्यत्वात् , तदुक्तं स्तुतिकृता हेमचन्द्रसूरिणाऽन्ययोगव्यवच्छेदद्वात्रिंशिकायाम्-"नोत्सृष्टमन्यार्थमपोद्यते च" इति। ननु यागीयहिंसाऽपि निषिद्धत्वादनिष्टजननी यदि तदा प्रवृत्तिस्तत्र दुर्घटेति चेत् ? विज्ञास्तत्र न प्रवर्तन्त एव, मूढानां तु श्येनादाविव तत्रापि दोषादेव प्रवृत्तिः, अत एव साङ्ख्या अपि "दृष्टवदानुश्रविकः, स ह्यविशुद्धिक्षयातिशययुक्तः, तद्विपरीतः श्रेयान् , व्यक्ताव्यक्तज्ञविज्ञानात् ॥ १॥" इत्यत्राविशुद्धिविचारणायां स्वल्पः संकरः सप्रत्यवमर्श इत्यादि वाचस्पतिमिश्रव्याख्यापर्यालोचनतः सामान्यनिषेध-विशेषविधिबोधितानर्थहेतुकत्व-क्रत्वङ्गत्वयोरेकन समावेशसंभवात् , निषिद्धस्यापि विहितत्वस्य विहितस्यापि निषिद्धत्वस्य च श्येनादिवदुपपत्तेः; श्येनादाविव ज्योतिष्टोमादौ रागद्वेषादिवशीकृतस्यैवाधिकाग़ज्योतिष्टोमादीनां दुष्टत्वमेव प्रतिपन्नवन्तः, तथा महाभारते "जपस्तु सर्वधर्मेभ्यः, परमो धर्म उच्यते । अहिंसया हि भूतानां, जपयज्ञः प्रवर्तते ॥ १ ॥” इति, मनुस्मृतावपि"जप्येनैव तु संसिद्ध्येद्, ब्राह्मणो नात्र संशयः । कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते ॥ १॥" wr
SR No.022389
Book TitleShastra Vartta Samucchay Part 02
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy