SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः ३७ व्याधिनिवृत्त्यर्थं विहिताद् दाहाद् व्याधिनिवृत्तिरपि भवतु, तेन विधिना दुःखकरत्वप्रतिषेधाकरणादबाधितेन 'दाहो न कार्यः' इत्यनेन निषेधविधिना दाहस्यानिष्टसाधनत्वमपि प्रतीयतां न कश्चिद् विरोध इति भावः ॥ ४७ ॥ १५९ ॥ दृष्टान्त-दार्टान्तिकयोः साम्यव्यवस्थापनाय दृष्टान्ते योजितं दोषकरत्वं दार्टान्तिकेऽपि योजयति एवं तत्फलभावेऽपि, चोदनातोऽपि सर्वथा ।। ध्रुवमौत्सर्गिको दोषो, जायते फलचोदनात्॥४८॥१६०॥ एवमिति-यथा विहिते दाहे तथेत्यर्थः, चोदनातोऽपि ऋत्वङ्गहिंसाविधेरपि, तत्फलभावेऽपि भूत्यादिलक्षणविधिबोधितफलसम्भवेऽपि, सर्वथा अन्यहिंसातुल्यतया, ध्रुवम् अवश्यम्, औत्सर्गिकः सामान्यनिषेधविधिबोधितः, दोषः प्रकृते पापलक्षणः, जायते भवति, कुत इत्यपेक्षायामाह-फलचोदनादितिभूत्यादिलक्षणफलोद्देशेन विधानात् , तथा च या या तृष्णानिमित्तिका हिंसा साऽधर्मजनिकेति अधर्मजनकतावच्छेदकतृष्णामूलकहिंसात्वलक्षणधर्माकान्तत्वात् ऋत्वर्थाऽपि हिंसाऽधर्मजनिकेति । अत्र प्रश्नोत्तराभ्यां मीमांसकाभिमतयागाङ्गहिंसाऽदोषव्यपोहनमुपाध्यायैर्यथोपदर्शितं तथा सोपस्कारतदुक्तिभिरुपदय॑ते-"ननु निषेधविधिनाऽनिष्टसाधनत्वमानं बोध्यते ? बलवदनिष्टसाधनत्वं वा ? आये-हिंसाविषयिणी निवृत्तिनिषेधविधिना न भवेत् , यतो यत्रापि पाकादौ प्रवर्तते पुरुषस्तदपि पाकादिकमग्निप्रज्वालनादिव्यापारतो यत्किञ्चित्कष्टेनैव निष्पद्यत इति यत्किञ्चिहःखात्मकानिष्टजनकं भवत्येव, तथा च प्रवृत्तिविषयेऽप्यनिष्टजनकत्वं समस्त्येवेति नानिष्टसाधनत्वज्ञानं निवृत्तिजनकमिति; द्वितीये-दाहमन्तरेणापि प्रकारान्तरेण व्याधिनिवृत्तिरूपेष्टोत्पत्तेः सम्भवेनेष्टोत्पत्तिनान्तरीयकदुःखाधिकतापादिदुःखजनकत्वेन बलवदनिष्टसाधनत्वस्य दाहो न कार्य इति निषेधविधिनाऽवबोधनाद् दाहविषयिणी निवृत्तिरेव स्यात् , न तु व्याधिनिवृत्यर्थं दाहः कार्य इति विधिना दाहविषयिणी प्रवृत्तिः, तस्माद् विशेषनिषेधे सति यथा सामान्यविधेनिषिद्धविशेषतरसामान्यपरत्वं, तथा विशेषविधौ सति सामान्यनिषेधस्यापि विहितविशेषतरसामान्यनिषेधपरत्वमेव न्याय्यम् , तथा च यथा व्याधिनिवृत्त्यर्थं दाहः कार्य इत्यनेन विशेषविधिना व्याधिनिवृत्तिफलकदाहलक्षणदाहविशेष विहिते दाहो न कार्य इति
SR No.022389
Book TitleShastra Vartta Samucchay Part 02
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy