________________
शास्त्रवार्तासमुच्चयः।
[द्वितीयः कार्य इति निषेधवाक्येन दाहसामान्यं दुःखादिकरत्वेनानिष्टजनकं मतं तथेत्यर्थः, उभयत्र युक्तिं दर्शयति-उत्सर्गप्रतिषेधत इति-न दाहः कार्य इति प्रतिषेधविधिर्यथा दाहत्वावच्छेदेनैव कार्यत्वं प्रतिषेधयन्ननिष्टसाधनत्वं बोधयति, तथा "मा हिंस्यात् सर्वा भूतानि" [ ] इति निषेधविधिरपि “अमानोनाः प्रतिषेधवचनाः” इति वचनात् मेति निषेधबोधकसमभिव्याहारादनिष्टसाधनत्वे निरूढलाक्षणिकप्रकृतविध्यर्थस्यानिष्टसाधनत्वस्य 'असति बाधके उद्देश्यतावच्छेदकावच्छेदेन विधेयान्वयः' इति व्युत्पत्तिबलतो निषेध्यतावच्छेदकहिंसात्वरूपोद्देश्यतावच्छेदकावच्छेदेनान्वयतो हिंसामात्र एवानिष्टसाधनत्वं बोधयतीत्यतो याज्ञिकहिंसनमपि दोषकृदित्यर्थः, एतेन-'इष्टसाधनत्वरूपविध्यर्थस्य नजर्थेऽभावेऽन्वये हिंसने इष्टसा- - धनत्वाभाव एव बोधितः स्यादिति ततः कथं हिंसने दोषकृत्त्वबोधः?, नहि यदिष्टसाधनं न भवति तदनिष्टसाधनं भवत्येवेति नियमो येनेष्टसाधनत्वाभावतोऽनिष्टसाधनत्वमर्थादागच्छेत् , इष्टसाधनानिष्टसाधनभिन्नोपेक्षणीयार्थस्यापि सद्भावात् , प्रकृतनिषेधविधेः पापजनकत्वे निरूढलक्षणायां 'दाहवद् वैद्यके' इति दृष्टान्तानुपपत्तिः, व्याधिनिवृत्यर्थं कृतस्य दाहस्य तापात्मकानिष्टजनकत्वेऽपि पापजनकत्वाभावात् , इति प्रकृतविध्यर्थनिषेधस्येष्टसाधनत्वाभावरूपस्य हिंसात्वसामानाधिकरण्येनान्वयाद् यज्ञीयहिंसातिरिक्तहिंसाया इष्टसाधनत्वाभाववत्त्वेऽपि यज्ञीयहिंसाया इष्टसाधनत्वं विधिबोधितं नानुपपन्नं, तद्धर्मसामानाधिकरण्येन तदभाववत्ताज्ञानस्य तद्धर्मसामानाधिकरण्येन तद्वत्ताज्ञानाविरोधित्वात्' इति निरस्तम् , सामानाधिकरण्येन विधिशङ्काविरहेण सामान्यत एव निषेधान्वयस्वीकारादिति ॥ ४६ ॥ १५८ ॥ ततः किमित्याकाङ्क्षायामाहततो व्याधिनिवृत्त्यर्थ, दाहः कार्यस्तु चोदिते । न ततोऽपि न दोषः स्यात् , फलोद्देशेन चोदनात् ॥४७॥१५९॥ तत इति-दाहकर्तव्यत्वनिषेधविधिना दाहत्वावच्छेदेनैव दाहेऽनिष्टसाधनत्वनिर्णयत इत्यर्थः, व्याधिनिवृत्त्यर्थ दाहः कार्यस्तु चोदिते अत्र तुरप्यर्थकः, स 'चोदिते' इत्यनन्तरं योज्यः, 'चोदिते' इत्यस्य विहिते इत्यर्थः, तथा च 'व्याधिनिवृत्त्यर्थं दाहः कार्यः' इत्येवं विहितेऽपि दाहे, न ततोऽपि न विहितादपि दाहकरणात् , न दोषः न तापादिदुःखकरत्वलक्षणो दोषः, किन्तु स्यादेव दोषः, यतः फलोद्देशेन व्याधिनिवृत्तिलक्षणफलार्थ, चोदनात् विधानात्, एवं च