________________
स्तबकः]
स्याद्वादवाटिकाटीकासङ्कलितः
साधनत्वेन बोधिताऽपि, श्वेतवर्णच्छागाऽऽलम्भनं वायुदेवतोद्देश्यकं भूतिकामकर्तृकं भूत्यात्मकतदिष्टसाधनमित्येवं बोधजनकनिरुक्तश्रुतिप्रतिपादिताऽपि हिंसेति यावत् , "हिंसाऽपायाय” इति श्रीहरिभद्रसूरिसम्मतः पाठः, अपायायेति प्रतीकमुपादाय प्रत्यपायार्थमेवेत्येवं व्याख्यानात् , पापायेति उपाध्यायसम्मतः पाठः, स्पष्टार्थत्वमालोच्य तावन्मात्रस्यैव तद्वयाख्याने उल्लिखितत्वात् , तत्त्वतः परमार्थतः, एतत् अपायायेत्यनेनान्वेति, 'तत्त्वतः' इत्यस्य युक्त्या विचार्यमाणेत्यर्थस्तु हिंसेत्यनेनान्वेति, विधिबोधितत्वान्नेयं पापजनिकेत्याशङ्काशङ्कद्धरणायाह-शास्त्रचोदितभावेऽपीति-प्रकृतविधिबोधितेष्टसाधनताकत्वेऽपीत्यर्थः, वचनान्तरबाधनात सामान्यतः प्रवृत्तेन स्वशास्त्रप्रसिद्धेनैव वचनान्तरेण "मा हिंस्यात् सर्वा भूतानि" [ ] इति निषेधविधिना विरोधात् , वचनान्तरबाधनादिति हरिभद्रसूरिसम्मतः पाठः, उपाध्यायसम्मतस्तु 'बाधनात्' इत्यस्य स्थाने बोधनादिति पाठः, अनिष्टसाधनत्वेन बोधनादित्येवं तैर्व्याख्यानात् ॥ ४५ ॥ १५७ ॥ एतदेव भावयतिन हिंस्यादिह भूतानि, हिंसनं दोषकृन्मतम् । दाहवद् वैद्यके स्पष्टमुत्सर्गप्रतिषेधतः ॥४६॥ १५८ ॥ न हिंस्यादिहेति-इहेति भूतानीत्यनन्तरं योज्य, न हिंस्याद् भूतानीति वचनं "मा हिंस्यात् सर्वा भूतानि" [ ] इति वेदवाक्यस्य स्मारकम् , तथा च इह "मा हिंस्यात् सर्वा भूतानि” इति वाक्ये, इदं वाक्यं साक्षादेव किमिति नोपन्यस्तमित्याशङ्कानिवृत्तये श्रीहरिभद्रसूरिभिरुक्तम्-"इहशब्दोऽन्यस्थाने प्रयुक्तश्छन्दोभङ्गभयात्” एवं तु द्रष्टव्यः-"न हिंस्याद् भूतानि” इति, एतावतेहशब्दमात्रस्यान्यस्थानप्रयुक्तत्वमुपपादितम्, ततश्चेदमप्यायात्येव-छन्दोभङ्गभयादेव साक्षाद्वेदवचनं न गुम्फितम् , अनुष्टुप्छन्दसि पञ्चमाक्षरस्य लघ्वक्षरत्वनियमादिति, हिंसनं राग-द्वेष-मोह-तृष्णादिनिबन्धनहिंसासामान्यम्, न तु यत्किञ्चिद्धिंसनं, येन यागीयहिंसनमनिषिद्धत्वादनिष्टजनकं न भवेदपि, दोषकृत् पापकृत् , पापमपि साक्षादनिष्टदुःखजनकत्वादनिष्टमित्यनिष्टजनकमिति यावत् , स्पष्टम् असंदिग्धतया स्पष्टं, नात्र कस्यापि परीक्षकस्य संदेहो हिंसनमनिष्टजनकं नवेति, मतम् अभ्युपगतम्, अत्र निदर्शनमाह-दाहवद् वैद्यके इति-यथा वैद्यके दाहो न