________________
३४
: शास्त्र वार्तासमुच्चयः ।
[ द्वितीयः इदं तदित्येवं विशिष्य प्रमाणेनोपदर्शयितुमशक्यम्, तथा चानिर्वचनीयत्वाद् बाधितमित्यर्थः, चतुर्थविकल्पविषयीकृते कर्मक्षयस्याहेतुकत्वे दोषमाह - अहेतुत्वे इति- बहुव्रीह्याश्रयणात् कर्मक्षयस्या हेतुकत्वे इत्यर्थः सदा भावः सर्वदा भवनं स्यात्, अहेतुकस्योत्पत्तिकारणमन्तरेणैवोत्पत्तिशीलत्वस्वभावादेव भवनमिति तादृशस्वभावस्य सर्वदाऽविशेषात् सर्वदा भवनं प्रसज्यत इत्यर्थः, यदि च नोत्पत्तिशीलत्वमस्य किन्त्वनुत्पत्तिशीलत्वमेव तदा कदापि भवनं न भवेदित्याह - अभावो वेति-अभवनं वेत्यर्थः, स्यात् भवेत्, हि निश्चितम् सदैव सर्वदैव अनुत्पत्तिशीलत्वस्वभावस्य सर्वदा व्यवस्थितेः ॥ ४३ ॥ १५५ ॥
तस्मात् कर्मक्षयस्याहिंसाद्युत्कर्ष साध्यत्वं विकल्प विषयीकृतमेव न्याय्यमित्याहमुक्ति: कर्मक्षयादिष्टा, ज्ञानयोगफलं स च ।
अहिंसादि च तद्धेतुरिति न्यायः सतां मतः ॥ ४४ ॥। १५६ ।। मुक्तिरिति — परमानन्दप्राप्तिस्वरूपा मुक्तिरित्यर्थः, तेन कर्मसम्बन्धस्य बन्ध कर्मसम्बन्धविगमो मुक्तिः, तस्याश्च कर्मक्षयस्वरूपाया न कर्मक्षयजन्यत्वमित्युक्ते -- नवकाशः, कर्मक्षयादिष्टा कर्मक्षयजन्याऽभिमता, स च कर्मक्षयश्च, ज्ञानयोगफलं ज्ञानपदेन सम्यग्ज्ञान-सम्यग्दर्शनयोर्ग्रहणं, योगश्च शुक्लध्यानादिलक्षणः: सम्यक् चारित्रमेव, तथा च सम्यग्ज्ञान- सम्यग्दर्शन- सम्यक्चारित्रमित्येतद्वनत्रयफलम्, अहिंसादि आदिपदादस्तेयादिपरिग्रहः, हिंसा विरमणपरिमाणादि तद्धेतुः सम्यग्ज्ञानादिरत्त्रत्रयस्वरूपज्ञानयोगकारणम् इति एवंस्वरूपः, न्यायः सन्मार्गः, सतां जैनागमरहस्यज्ञानां मतः सम्मतः, अत्र न कश्चन विशेषोऽपि ॥ ४४ ॥ १५६॥
॥ इति संसारमोचकमतखण्डनम् ॥
अथ याज्ञिकमतखण्डनम् -
यथा संसारमोचकागो युक्त्यपेतस्तथा याज्ञिकागमोऽपीति दर्शयतिएवं वेदविहितापि, हिंसाऽपायाय तत्वतः । शास्त्रचोदितभावेऽपि वचनान्तरबाधनात् ।। ४५ ।। १५७ ।। एवमिति—संसारमोचकाभिमतहिंसावदित्यर्थः, वेदविहिताऽपि हिंसा “श्वेतं वायव्यमजमालभेत भूतिकामः” [ ] इत्यादिविधिवाक्येन भूतिकामस्येष्ट