________________
स्यावा
३३
स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः स्कर्षसाध्यत्वासम्भवाद्धिंसाधुत्तरदुःखापनयनोत्कर्षसाध्यो वेति तदर्थः, तद्विपर्ययजोऽपि वा अहिंसाधुत्कर्षसाध्यो वा, अन्यहेतुः वेत्यत्राप्यन्वेति, एतदुभयातिरिक्तकारणसाध्यो वा, अहेतु निर्हेतुक एव वा कर्मक्षयो भवेदिति चत्वारो विकल्पा अनोपतिष्ठन्ते ॥ ४० ॥ १५२ ॥ तत्र प्रथमविकल्पिते कर्मक्षयस्य हिंसाद्युत्कर्षसाध्यत्वे दोषमुपदर्शयतिहिंसाधुत्कर्षसाध्यत्वे, तदभावे न तत्स्थितिः । कर्मक्षयास्थितौ च स्यान्मुक्तानां मुक्तताक्षतिः॥४१॥१५३॥ हिंसाधुत्कर्षसाध्यत्व इति-हिंसाधुत्तरदुःखापनयनोत्कर्षसाध्यत्वे इत्यर्थः, तदभावे हिंसाधुत्कर्षाभावे, न नैव, तस्थितिः कर्मक्षयस्थितिः, कारणाभावे कार्यस्यासंभवात् , कर्मक्षयास्थितौ च कर्मक्षयाभावे च, जन्मादिकारणकर्मसद्भावात् , मुक्तानां मुक्तत्वेनाभिमतानां, मुक्तताक्षतिः जन्मादिरहितावस्थाविशेषस्वरूपमुक्तताऽभावः स्यात् ॥ ४१ ॥ १५३ ॥ - द्वितीयविकल्पगोचरीकृते कर्मक्षयस्याहिंसाधुत्कर्षसाध्यत्वे तथाऽभ्युपगन्तुः परस्य परसियन्ताश्रयणलक्षणं दोषमुपदर्शयति
तद्विपर्ययसाध्यत्वे, परसिद्धान्तसंस्थितिः।। कर्मक्षयः सतां यस्मादहिंसादिप्रसाधनः ॥ ४२ ॥ १५४ ॥ तद्विपर्ययसाध्यत्व इति-कर्मक्षयस्याहिंसाधुत्कर्षसाध्यत्वेऽभ्युपगम्यमाने इत्यर्थः, परसिद्धान्तसंस्थितिः अन्यराद्धान्ताभ्युपगमप्रसङ्गः, यस्मात् कारणात् , सतां साधूनां, अहिंसादिप्रसाधनः अहिंसादिकारणकः, कर्मक्षयः प्राणिनां कर्मविनाशोऽभिमतः ॥ ४२ ॥ १५४ ॥
हिंसाधुत्कर्षा-ऽहिंसाधुत्कर्षान्यतरभिन्नकारणसाध्यत्वे तृतीयविकल्पविषयीकृते दोषमुपदर्शयति
तदन्यहेतुसाध्यत्वे, तत्स्वरूपमसंस्थितम् । अहेतुत्वे सदा भावोऽभावो स्यात् सदैव हि ॥४३॥१५५ ।। तदन्यहेतुसाध्यत्वे इति-कर्मक्षयस्य हिंसाधुत्कर्षाहिंसाधुत्कर्षान्यतरभिन्नसाध्यत्व इत्यर्थः, एकैकस्योभयभिन्नत्वादुभयस्यान्यतरत्वेन भेदप्रतियोगितयोपादाचम्, तत्स्वरूपं निरुक्तान्यतरभिन्न हेतुस्वरूपम् , असंस्थितम् सम्यग न सिद्धम् ,
.३ शास्त्र०स द्वि०