________________
३२
शास्त्रवातासमुच्चयः।
[द्वितीयः . शस्त्रघातादिना मृतानां प्राणिनां प्रेत्यानन्तदुःखेष्वेव नियोजनात् , एतजन्मनि यादृशी वेदना ततोऽसंख्यातादिगुणिता वेदना तथामृतानां नरकादिगतिगतानां स्यादित्युपकाराभावात् ; किञ्च सुखिनोऽपि प्राणिनोऽधिककालं जीवन्तो विहाराऽन्नभक्षणादिक्रियया यथासंभवं जीवहिंसामगम्यागमनादिकं च कुर्वन्तः पापान्यनेकविधान्युपार्जयिष्यन्ति, ततः प्रेत्यानेकदुःखभाजो भविष्यन्तीत एवम्भूता मा भूवन्निमे इति मारयाम्यमून्नित्युपकारबुद्धया सुखिनामपि पापवारणार्थं घातः स्यात् , तथा चापूर्वकारुणिकस्य तव कुटुम्बघातोऽपि न्याय्यः, तस्माद् दुष्टोऽयं संसारमोचकाभिनिवेशः, दुःखकारणाधर्मविनाशो यथा भवति तथैव प्राणिनः प्रवर्तनं न्याय्यं, तच्च धर्मोपदेशतो विहितकर्मणि प्रवर्तनादेवेति धर्मे नियोजनादेव, कारुणिकत्वमुपपद्यते इत्याहतमतमेव समीचीनम् ॥ ३८ ॥ १५० ॥ एतदेव भावयतिमुक्तिः कर्मक्षयादेव, जायते नान्यतः क्वचित् । जन्मादिरहिता यत् तत् , स एवात्र निरूप्यते ॥३९॥१५१॥ मुक्तिरिति-परमनिवृत्तिरित्यर्थः, कर्मक्षयादेव जन्मकारणपुण्यापुण्यलक्षणकर्मविगमलक्षणासाधारणकारणादेव, एवकारार्थव्यवच्छेदमुपदर्शयति-नान्यतः क्वचिदिति-कुत्रापि कस्यापि कदापि कर्मक्षयभिन्नदानादिलक्षणकारणान्मुक्तिर्न भवतीत्यर्थः; अभय-सुपात्रदानादितोऽपि कर्मक्षये सति तदनन्तरं मुक्तिर्न तु साक्षादित्याशयः, कथं कर्मक्षयादेवेत्यपेक्षायामाह-जन्मादिरहितेति, यत् यस्मात् कारणात् , जन्मादिरहिता जन्म-जरा-मरणादिरहिता मुक्तिः, दानादितस्तु पुण्यलोकाद्यवाप्ति-सद्गुरूपदेशादिर्भवति, न त्वीदृशी मुक्तिरिति, तत् तस्मात् कारणात्, स एव मुक्त्यसाधारणकारणं कर्मक्षय एव, अत्र एतत्प्रक्रमे, निरूप्यते प्रतिपाद्यते ॥ ३९ ॥ १५१ ॥ तत्रान्याभिमतहेतूनामपाकरणार्थं विकल्पमुखेन किंहेतुकोऽयमिति पर्यनुज्यतेहिंसाधुत्कर्षसाध्यो वा, तद्विपर्ययजोऽपि वा।
अन्यहेतुरहेतुर्वा, स वै कर्मक्षयो ननु ? ॥ ४० ॥ १५२ ॥ हिंसाधुत्कर्षसाध्यो वेति। ननु इति आक्षेपे, वैपदं निश्चयार्थकम् , स कर्मक्षयः, हिंसाधुत्कर्षसाध्यो वा कर्मण उपभोगादेव क्षय इति साक्षाद्धिंसाधु