________________
स्तबकः ]
स्याद्वादवाटिकाटीका सङ्कलितः
इदं पद्यं भगवद्गीतासु नास्ति, किन्तु श्रुति [ स्मृति ]पद्यमिदम्, पञ्चदश्यास्तृप्तिदीपप्रकरणे सप्तचत्वारिंशत्तमपद्यमिदम्, तट्टीकायामित्थमभिहितम् - विवेकि इवाविवेकिनोऽपि भोगेनैव तृप्तिः स्यादतो विवेकोऽप्रयोजक इत्याशङ्कय भोगस्य तृप्तित्वाभावप्रतिपादिकां श्रुतिं पठति - 'न जातु काम' इति, तत्र 'भूय एवोपवर्धते' इत्यस्य स्थाने 'भूय एवाभिवर्धते' इति, इत्थं चैतदवश्यमङ्गीकर्तव्यम् - पिपासाया इव विषयेच्छायाः क्लिष्टकर्मोदयजनितत्वेन तदुपशमेनैव तदुपशमात्, तदुपशमार्थमेव च पिपासोपशमार्थं जलपानस्येव मौनीन्द्रवचन | मृतपानस्य न्याय्यत्वादिति" इति ॥ ३७ ॥ १४९ ॥
इति मण्डलतन्त्रवादिमतखण्डनम् ॥
अथ संसारमोचकमतखण्डनम् -
३१
अथ संसारमोचकागमेऽप्युक्तदोषमतिदिशतिसंसारमोचकस्यापि, हिंसा यद् धर्मसाधनम् । मुक्तिश्चास्ति ततस्तस्याप्येष दोषोऽनिवारितः ॥ ३८ ॥। १५० ।। संसारेति । संसारमोचकस्यापीत्यपिना यथा मण्डलतन्त्रवादिमते दोषस्तथेत्यर्थः, परिगृह्यते, यत् यस्मात् कारणात्, हिंसा प्राणव्यपरोपणं, धर्मसाधनं धर्मनिमित्तम्, दुःखितः प्राणी हिंसया मृतः सन् दुःखविमुक्तो भवतीति दुःखविमोक्षणेन, मुक्तिश्चास्ति अभ्युपगतेति शेषः भवतु नामैवं ततः किमित्याकाङ्क्षायामाह -तत इति तस्मात् कारणादित्यर्थः, तस्यापि संसारमोचकस्यापि, मते इति शेषः, एष दोषः लोकदृष्टविरुद्धत्वात् तदुत्कर्षलक्षणकारणस्यासंभवेन मुक्तिरूपकार्यस्याभावप्रसङ्गाच्च हिंसाया धर्मसाधनत्वं न संभवतीत्येवंलक्षणो दोषः, अनिवारितः पूर्वमत इवैतन्मतेऽपि वारयितुमशक्यः । ननु एतन्मरणान्ममैतद्धनाद्यवाप्तिर्भविष्यतीत्येवंविधधनलाभादितृष्णानिमित्तैव हिंसा न धर्मकारणं, या तु दुःखपरिभूतोऽयं न किञ्चित् सुखमनुभवति हिंसया मृतः सन् दुःखविमुक्तो भविष्यतीत्येनं मारयामीत्युपकारबुद्धितो योपकारनिमित्ता हिंसा सा धर्मसाधनमेव, यथा व्याधितस्याप्तवैद्येन दाहादिकरणं धर्मनिमित्तम्, तथा च दुःखितानां दुःखविमुक्तये हिंसाऽभ्युपगमो न विरोधाघ्रात इति चेत् ? न - विरतिम प्रतिपद्यैव