SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्तासमुच्चयः। [द्वितीयः अधिकृतस्यागम्यस्योपचयार्थमाहतच्चास्तु लोक-शास्त्रोक्तं, तत्रौदासीन्ययोगतः । सम्भाव्यते परं ह्येतद्, भावशुद्धेर्महात्मनः ॥ ३७॥१४९ ॥ तच्चेति-अगम्यं चेत्यर्थः, लोक शास्त्रोक्तं लोके शास्त्रे चागम्यतयाऽभिहितं भगिन्यायेव, अस्तु भगिन्यादिवत् पाणिगृहीताऽप्यगम्या, पाणिगृहीतैवागम्या भगिन्यादिकं तु गम्यमेवेत्यादिका लोकशास्त्रविरुद्धा स्वेच्छामात्रपुरस्कृता कल्पना तु अप्रामाणिकत्वान्न लौकिकपरीक्षकैरादरणीया, तत्र अगम्ये भगिन्यादौ, औदासीन्ययोगतः अरक्ताद्विष्टतयाऽप्रवृत्तितः, महात्मन इति उपाध्याय-सम्मतः - पाठः, दृढप्रतिज्ञस्येति तद्व्याख्यानात् , “महात्मनाम्" इति मूलकृत्सम्मतः पाठः, महासत्त्वानामित्येवं तद्व्याख्यानात् , भावशुद्धेः एकान्तविहितानुष्ठानसम्पत्तितः, हि निश्चितम् , परं सर्वत्र निस्पृहतयाऽप्रवृत्तिस्वरूपतालक्षणोत्कृष्टताशालि, एतत् माध्यस्थ्यम् , संभाव्यते संभावनाविषयो भवति, संभावनायां हेतुरुपदर्शित उपाध्यायैः-'देशविरतिपरिणामेनानिकाचितस्य चारित्रमोहनीयस्याचिरादेव क्षयसंभवात्' इति। अत्र शिष्यबुद्धिवैशद्यार्थ पराभिग्नायस्योपदर्शनपरं खण्डनमुपाध्यायकृतमुल्लिख्यते-"स्यादेतत् , इच्छानिरोधान्न तन्निवृत्तिः, किन्तु यथेच्छं प्रवृत्त्या सिद्धत्वज्ञानादेव, ततो योगार्थ यथेच्छं प्रवृत्तिरेवोचिता, का तत्र गम्यागम्यव्यवस्था ? मैवम्-यावत्सुखसिद्धत्वधियं विना विशेषदर्शिनः सामान्येच्छाया अविच्छेदात् ; विशिष्य सिद्धत्वधियस्तु विशेषेच्छाया अनिवर्तकत्वात् , अन्यथा प्रोषितस्याज्ञातकान्तामरणस्य तत्कान्ताऽवलोकनेच्छाऽभावप्रसङ्गात् , असिद्धविषये इच्छाया अनिरोधाच्च; तस्मात् सामान्येच्छाविच्छेदः सिद्धत्वज्ञानकृतो नास्ति विरक्तानाम् , किन्तु शुभादृष्टकृत एव, तच्च शुभादृष्टं विषयाप्रवृत्त्यैव भवति, तत्प्रवृत्त्या तु तत्प्रतिकूलाऽदृष्टार्जनादुत्कटेच्छैव विषये जायते, तदुक्तं पतञ्जलिनाऽपि “भोगाभ्यासमनुवर्धन्ते रोगाः, कौशलं चेन्द्रियाणाम्” [ ] इति; गीतास्वप्युक्तम् “न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्मेव, भूय एवोपवर्धते ॥ १ ॥” इति, [ मनु० द्वि० अ० ]
SR No.022389
Book TitleShastra Vartta Samucchay Part 02
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy